________________
एतेषाञ्च ज्ञानाद्देवमनुष्यादीनां कामभोगादीनामपि ज्ञायकत्वा तेभ्यो विरक्तो भवति, ततश्चैतेभ्यो भोगेभ्यो बाह्याभ्यन्तरसम्बन्धोऽपि विच्छेदयति, तस्मादनागारवृत्तिधारकः सन् उत्कृष्टसंयममनुत्तरं धर्मं च संस्पर्शति, एतेन संयमधर्मसंस्पर्शनेन अज्ञानात् सञ्चितं कलुषितकर्मरजः संधुनोति, तेन स केवलज्ञानं केवलदर्शनञ्च लभते । एतस्माल्लाभात् केवलीति भूत्वा, लोकालोकज्ञः सन् योगाश्च निरुध्य शैलेश्याख्यामवस्थामधिगतः कर्मणां सर्वथा क्षयं विधाय सिद्धो भूत्वा लोकाग्रे तिष्ठन् शाश्वतः सिद्धो जायते इति ।
अन्यश्चायं क्रमः स्थानाङ्गे' महावीर - गौतमसम्वादे इत्थं विद्यते - तथारूपस्य श्रमण-ब्राह्मणस्य पर्युपासनायाः फलं श्रवणम्, श्रवणफलञ्च ज्ञानम्, ज्ञानफलञ्च विज्ञानम्, एतत्फलञ्च प्रत्याख्यानत्यागः, तस्य च फलं संयमरूपः, संयमस्यानास्रवः, अनास्रवस्य च तप, तपसश्च व्यवदानम् - कर्मणा निर्जरणम्, व्यवदानस्य तु फलमक्रिया (योगाभाव ), अक्रियायाश्च फलं निर्वाणम्, एतस्य च फलरूपेण सिद्धगतौ गमनं भवतीति ।
अपरश्च तृतीयः क्रम इत्थ विद्यते दशाश्रुतस्कंधे- रागद्वेषविरहितो निर्मलचित्तवृत्तेर्धारको जीवो धर्मध्यानमधिगच्छति । निःशङ्कमनसा धर्मस्थितेन च निर्वाणमुपलभ्यते । एतादृश स संज्ञिज्ञानात् स्वीयमुत्तमस्थानं विजानाति । अथ च य. खलु सर्वकामविरक्त, सहिष्णुश्च भवति, तस्य संयमधनस्य तपस्विनोऽवधिज्ञानमुत्पद्यते । स च तपसाऽशुभलेश्याः अपावृत्याafaज्ञान निर्मल विदधाति । ततः ऊर्ध्वमधस्तिर्यग्लोकस्थिताना सर्वेषामपि जीवादीनां पदार्थानां प्रत्यक्षज्ञानेन युज्यते । अथ च सर्वथा शुभलेश्याधारणात् तर्क-वितर्कजन्यचाञ्चल्यविरहितचित्तस्य, सर्वथा विमुक्तस्य तस्य मन:पर्ययज्ञानमुत्पद्यते । यदा च तस्य ज्ञानावरणीयं सर्वथा क्षयमधिगच्छति, तदा स केवलज्ञानी जिनो भूत्वा लोकालोकयोर्ज्ञाता भवति । तथा च प्रतिमाना विशुद्धाराधनजन्य मोहनीयक्षयमधिगच्छन् सर्वविधान्यपि कर्माणि विनाश्य, देहञ्च परित्यज्य नाम - गोत्र - आय्वादिविरहितः सन् कर्मरजसा सर्वथा विप्रमुक्तत्वमुपलभते ।
एवमत्र जैनदर्शन आत्मन. कर्मणां सर्वथोच्छेद एव 'मोक्ष' इति स्वीकृतमर्थात् आत्मनः कर्मणाञ्च द्वयोरपि पदार्थयोः पृथक् र स्वस्वरूपेण स्थितिरेव 'मोक्ष' इति । आत्मनः कर्माणि विमुञ्च्य स्वशुद्धरूपेणावस्थानम्, कर्मणाञ्चात्मसंश्लेषणं परित्यज्य स्वस्वरूपेण तस्मात्पृथगवस्थानमित्यर्थः ।
मोक्षो मोक्षमार्गश्च
२०६