________________
तदनन्तरमेवानन्त- परिपूर्ण योशवरण रहितयोर्लोकालोकप्रकाशकयोः केवलज्ञानदर्शनयोरुत्पादो जायते ।
केवलज्ञानदर्शनयोश्च सद्भावे सत्येव ज्ञानावरणीयादीनाञ्चतुर्णां घनघातिकर्मणामपि विनाशो भवति । ततश्च यदान्तर्मुहूर्तात्मक आयुष्यकालोऽवशिष्यते तत्र केवली प्रथम मनोव्यापारं (योग), ततश्च वाग्व्यापारम् तदनन्तरञ्च कायव्यापारम् श्वासोच्छवासञ्च सरुध्य पञ्चह्रस्वाक्षरोच्चारणमात्र' काल शैलेशीकरणावस्थाया शुक्लध्यानचतुर्थश्रेण्या तिष्ठति, तत्र स्थितस्यावशिष्टाना वेदनीयायुष्कनामगोत्राणामपि युगपत्क्षयः सञ्जायते । सर्वेषा कर्मणाञ्च क्षयेण सहैव औदारिककार्मण- तैजसशरीरेभ्योऽपि सार्वकालिकी मुक्तिमधिगच्छति । एव ससारावस्थिक एव स सिद्ध., ' मुक्तो वा जायते ।
मोक्षमार्ग: (The Path of Liberation)
जैनदर्शनदृष्ट्वा सम्यग्ज्ञान-दर्शन- चारित्राणा समुदितानामेव मोक्षमार्गेण स्वीकारो न तु व्युदितानाम्, अतएव जैनागमेष्वेतद्विषयेऽभिहितम्, यत्'सम्यक्त्वस्य चारित्रस्य च युगपदेवात्मनि सद्भावो जायते, तत्र प्रथमं सम्यक्त्वमुत्पद्यते यतो हि यस्य श्रद्धाभावस्तस्य न सम्यग्ज्ञान कथमपि भवति । सम्यग्ज्ञानेन च ऋते सम्यक्चारित्रस्यापि न सद्भावो भाव्यते । चारित्रगुणानाञ्चाभावे कर्ममुक्तिरपि न भवितुमर्हति कर्ममुक्तेरभावे तु निर्वाणमप्य सम्भाव्यमिति । ज्ञानेन तावज्जीवः पदार्थान्नवगच्छति, दर्शनेन श्रद्दधाति चारित्रेण चास्रवनिरोध विदधाति तपसा च कर्मणा निर्जरण विधायान्ते शुद्धः सञ्जायते । एवं मोक्षार्थिनो जीवस्य सम्यग्ज्ञानदर्शनचारित्राणि तप उपयोगश्चेति लक्षणात्मकानि सन्तीति । '
इत्थं मोक्षस्याय ज्ञानदर्शनचारित्रात्मक एक एव मार्ग, नान्यः कश्चिदेतद्व्यतिरिक्तो जैनदृष्ट्या भवति । किन्त्वत्रानेन मार्गेण केन क्रमेण सिद्धिरवातुं शक्यते एतद्विषयकास्त्रिविधा क्रमा. जैनागमेषु दरीदृश्यते । ते च यथा-
मोक्षमार्गक्रमाः
यदात्मा जीवाजीवयोः सम्यग्ज्ञाता, तदा स जीवाना विविधगतीनामपि ज्ञायको भवति, ततश्च तस्मिन् पुण्य-पाप-बन्ध-मोक्षविषयकमपि ज्ञानमुत्पद्यते,
जैनदर्शन आत्म- द्रव्यविवेचनन
२०८