________________
मोक्षो मोक्षमार्गश्च
मोक्षस्य सद्भावः
जैनदर्शने खलु नव- पदार्थाः स्वीकृतास्तत्रान्तिमस्य पदार्थस्य मोक्षस्य प्राधान्यात् शेषाणाञ्च तत्प्राप्त्यं सहकारिभावादन्ते एव निर्वचनं कृतम् । मोक्षस्यास्तित्वविषये यद्यपि जनाः परस्परं विवदन्ते, परमेतेनैव मोक्षस्यास्तित्व प्रतीयते यतो ह्यात्मा बद्धः सर्वैरनुभूयते, यथा खलु कारावासपदेनैव स्वातन्त्र्यस्यास्तित्वं प्रतीयते तथैवात्रात्मनो मोक्षविषयेऽपि प्रतीतिः | अत्र केचन जैनाचार्यास्तु मोक्षः बन्धस्य' प्रतिपक्षितत्त्वमित्यभिदधति । यतो हि बन्धस्य यदा सद्भावस्तदा मोक्षस्यापि सद्भावस्तिष्ठत्येव । बन्वस्य कर्म संश्लेषणात्मकत्वान्मोक्षस्य च सश्लिष्टकृत्स्नकर्मक्षयात्मकत्वादिति ।
मोक्षस्वरूपम् (Dfferentia of Liberation)
ये खलु कर्मपुद्गलाः आत्मना सश्लिष्टत्वात्तद्गुणधातित्वाच्च कर्मत्वपर्यायमधिगतवन्तस्तेषामत्र कर्मपर्यायविनाश एव 'मोक्ष' इति । मोक्षं विवेच यद्भिरिदमेव पूज्यपादैरभिहितम् -
'कृत्स्नकर्म वियोगलक्षणो मोक्षः' इति
अनादिकालात्कर्मभिर्निबद्धस्यात्मनो बन्धात्मकपारतन्त्र्यस्योच्छेद एव मोक्षः । बन्धोच्छेदे सति बद्ध आत्मा स्वतन्त्रो जायते, इयमेवास्य अस्माज्जगतो मुक्तिः । अर्थबन्धनमुक्तिरेव मोक्ष., बन्धकारणानामभावे, सचितकर्मणाञ्च क्षये (निर्जरणे) सति समस्तानामपि कर्मणा समूलोच्छेदो मोक्ष इति ।
तदेतेषां कर्मणामुच्छेदस्यायमेव क्रमो जैनागमेषु प्राप्यते । राग-द्वेषमिथ्यादर्शनान् विजित्य जीवो ज्ञान-दर्शन- चारित्राराधने तत्परो भवति, ततश्चाष्टविधकर्म ग्रन्थेर्भेदार्थं प्रयतते । तत्र च प्रथम मोहनीयकर्मणोऽष्टाविंशतिप्रकृतीनां क्षयो जायते, ततश्च पञ्चविधज्ञानावरणीयाना, नवविधदर्शनावरणीयानां पञ्चविधान्तरायकर्मणाञ्च युगपदेव क्षयो भवति,
मोक्षो मोक्षमार्गश्च
२०७