Book Title: Jain Darshan Atma dravya vivechanam
Author(s): M P Patairiya
Publisher: Prachya Vidya Shodh Academy Delhi

View full book text
Previous | Next

Page 134
________________ यतोहियथापि प्रबलमिथ्यात्वमोहनीयोदयात् जीवाजीबादिप्रतिपत्तिरूपादृष्टि: प्राणिषु विपर्यस्ता जायते, तथापि काचिन्मनुष्याश्वादिप्रतिपत्तिस्त्वविपर्यस्तैव भवति। तस्मात् निगोदावस्थायामपि तथाभूताव्यक्तस्पर्शमात्रप्रतिपत्तिरविपर्यस्ता भवति, अन्यथाऽजीवत्वप्रसङ्गः सम्पद्येत । अर्थात्प्रबलमिथ्यात्वोदयेऽपि काचिदविपर्यस्तापि दृष्टिर्भवति, ययापेक्षया मिथ्यादृष्टेरपि गुणस्थानसम्भवः । २ सासादनसम्यादृष्टिगुणस्थानम् (Down-Fall-Stage) अत्रेदमौपशमिकसम्यक्त्वलाभलक्षणः, सादयत्यपनयतीति सासादनमनन्तानुबन्धिकषायवेदनम् । आसादनेन सह वर्तते इति सासादन । सम्यगविपर्यस्ता दृष्टि:--वस्तुप्रतिपत्तिर्यस्य स सम्यग्दृष्टिः । सासादनश्चासौ सम्यग्दृष्टिश्चेति सासादनसम्यग्दृष्टि. अत्र सास्वादनसम्यग्दृष्टिरित्यपि पाठो विद्यते । तदपेक्षया स्वीपशमिकसम्यक्त्वलक्षणेन रसास्वादनेन सह वर्तते इति सास्वादनस्तथाहिभुक्तक्षीरान्नविषयव्यलीकचित्तः कश्चन पुरुषस्तदमनकाले क्षीरान्नरसमास्वादयति, तथैव मिथ्यात्वाभिमुखेन सम्यक्त्वे व्यलीकचित्तो जीव सम्यक्त्वमुद्वमन् तद्रसमास्वादयति । सास्वादनश्चासौ सम्यग्दृष्टिश्चेति सास्वादनसम्यग्दृष्टिस्तद् गुणस्थानं सास्वादनसम्यग्दृष्टिगुणस्थानमित्युच्यते ।" मिथ्यादर्शनोदयाभावे सत्यपि यस्यात्मानन्तानुबन्धेरुदयात्कालुष्यमधिगच्छति स सासादनसम्यग्दृष्टिर्भवति । अनादिमिथ्यादृष्टे व्यस्य मोहनीयषड्विशतिप्रकृतीनां, सादिमिथ्यादृष्टेश्च षड्विंशतिप्रकृतीनां, सप्तविंशतिप्रकृतीनामष्टाविशतिप्रकृतीनां वा सत्ता तिष्ठति । एते च यदा प्रथमसम्यक्त्वग्रहणोन्मुखास्तिष्ठन्ति, तदानवरतमनन्तगुणविशुद्धि वर्धयन्तः शुभपरिणामसंयुक्ता जायन्ते । ततश्च चतुश्चतुर्विधेषु वाङ्मनोयोगेष्वेकैकेन योगेनौदारिकर्व क्रियिकयोश्चकतरेण काययोगेन युक्ता. भवन्ति । एक कश्चन कषायोऽपि हीनाविको जायते, तथा च त्रिष्वपि वेदेषु केनचिदेकेन साकारोपयोगेन सहितः, संक्लेशरहितः, प्रवर्धमानः शुभपरिणामः कर्मप्रकृति स्थितिञ्च क्षयमाणोऽशुभकर्मप्रकृतीनामनुभागञ्च विदारयन्, शुभप्रकृत्यनुभागरसञ्च वर्द्धयन करणत्रयं" प्रारभते। अन्ते च सम्यक्त्व-मिथ्यात्व-सम्यमिथ्यात्वादीनामनन्तानुबन्धिक्रोधमानमायालोभानामुदयाभावेऽन्तमुहूर्त यावत्प्रथमोपशमसम्यक्त्वं भवति । तस्मिन्काले चात्यधिक षडावलिं यावन्न्यूनतमञ्चकसमयकमिदमवशिष्यते । मियावर्शनादीनां विनाशक:

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190