________________
यतोहियथापि प्रबलमिथ्यात्वमोहनीयोदयात् जीवाजीबादिप्रतिपत्तिरूपादृष्टि: प्राणिषु विपर्यस्ता जायते, तथापि काचिन्मनुष्याश्वादिप्रतिपत्तिस्त्वविपर्यस्तैव भवति। तस्मात् निगोदावस्थायामपि तथाभूताव्यक्तस्पर्शमात्रप्रतिपत्तिरविपर्यस्ता भवति, अन्यथाऽजीवत्वप्रसङ्गः सम्पद्येत । अर्थात्प्रबलमिथ्यात्वोदयेऽपि काचिदविपर्यस्तापि दृष्टिर्भवति, ययापेक्षया मिथ्यादृष्टेरपि गुणस्थानसम्भवः । २ सासादनसम्यादृष्टिगुणस्थानम् (Down-Fall-Stage) अत्रेदमौपशमिकसम्यक्त्वलाभलक्षणः, सादयत्यपनयतीति सासादनमनन्तानुबन्धिकषायवेदनम् । आसादनेन सह वर्तते इति सासादन । सम्यगविपर्यस्ता दृष्टि:--वस्तुप्रतिपत्तिर्यस्य स सम्यग्दृष्टिः । सासादनश्चासौ सम्यग्दृष्टिश्चेति सासादनसम्यग्दृष्टि. अत्र सास्वादनसम्यग्दृष्टिरित्यपि पाठो विद्यते । तदपेक्षया स्वीपशमिकसम्यक्त्वलक्षणेन रसास्वादनेन सह वर्तते इति सास्वादनस्तथाहिभुक्तक्षीरान्नविषयव्यलीकचित्तः कश्चन पुरुषस्तदमनकाले क्षीरान्नरसमास्वादयति, तथैव मिथ्यात्वाभिमुखेन सम्यक्त्वे व्यलीकचित्तो जीव सम्यक्त्वमुद्वमन् तद्रसमास्वादयति । सास्वादनश्चासौ सम्यग्दृष्टिश्चेति सास्वादनसम्यग्दृष्टिस्तद् गुणस्थानं सास्वादनसम्यग्दृष्टिगुणस्थानमित्युच्यते ।" मिथ्यादर्शनोदयाभावे सत्यपि यस्यात्मानन्तानुबन्धेरुदयात्कालुष्यमधिगच्छति स सासादनसम्यग्दृष्टिर्भवति । अनादिमिथ्यादृष्टे व्यस्य मोहनीयषड्विशतिप्रकृतीनां, सादिमिथ्यादृष्टेश्च षड्विंशतिप्रकृतीनां, सप्तविंशतिप्रकृतीनामष्टाविशतिप्रकृतीनां वा सत्ता तिष्ठति । एते च यदा प्रथमसम्यक्त्वग्रहणोन्मुखास्तिष्ठन्ति, तदानवरतमनन्तगुणविशुद्धि वर्धयन्तः शुभपरिणामसंयुक्ता जायन्ते । ततश्च चतुश्चतुर्विधेषु वाङ्मनोयोगेष्वेकैकेन योगेनौदारिकर्व क्रियिकयोश्चकतरेण काययोगेन युक्ता. भवन्ति । एक कश्चन कषायोऽपि हीनाविको जायते, तथा च त्रिष्वपि वेदेषु केनचिदेकेन साकारोपयोगेन सहितः, संक्लेशरहितः, प्रवर्धमानः शुभपरिणामः कर्मप्रकृति स्थितिञ्च क्षयमाणोऽशुभकर्मप्रकृतीनामनुभागञ्च विदारयन्, शुभप्रकृत्यनुभागरसञ्च वर्द्धयन करणत्रयं" प्रारभते। अन्ते च सम्यक्त्व-मिथ्यात्व-सम्यमिथ्यात्वादीनामनन्तानुबन्धिक्रोधमानमायालोभानामुदयाभावेऽन्तमुहूर्त यावत्प्रथमोपशमसम्यक्त्वं भवति । तस्मिन्काले चात्यधिक षडावलिं यावन्न्यूनतमञ्चकसमयकमिदमवशिष्यते । मियावर्शनादीनां विनाशक: