________________
तदा च यदि अनन्तानुबन्धि-क्रोध-मान-माया-लोभेषु कश्चिदुदयमधिगच्छति, तदा स मासादन इत्युच्यते। अत्र मिथ्यादर्शनोदयाभावेऽपि मतिश्रुतावधिज्ञानान्यज्ञानाख्यान्यस्य भवन्ति । कषायश्चानन्तमिथ्यादर्शनानुबन्धित्वादनन्तानुबन्धीत्युच्यते। एवमत्र परमानन्दरूपानन्तसुखफलप्रदो मोक्षबीजभूतः, औपशमिकसम्यक्त्वलाभो जघन्यतः एकसमयेन, उत्कृष्टत षडावलिकाभिरवगच्छति, स एव सास्वादनगुणस्थानकाल इत्युच्यते । ३. सम्यमिथ्यावृष्टिगुणस्थानम् (Mixed-Stage) सम्यक् च मिथ्या च दृष्टिर्यस्यासो सम्यमिथ्यादृष्टिस्तस्य गुणस्थानं सम्यङ्मिथ्यादृष्टिगुणस्थानम् । अत्र सम्यङ्-मिथ्यात्वोदयान्न तु केवलं मिथ्यादर्शनं, नापि केवल सम्यङ्दर्शनमपितूभयोमिश्रित एव भावो" जायते । अर्थात् क्षीणाक्षीणमदशक्तिकोद्रवोपभोगाद्यथेषत्कलुषितः मदपरिणामो जायते, तद्वदेव सम्यमिथ्यात्वप्रकृतेरुदयात्तत्त्वार्थश्रद्धानरूपोऽश्रद्धानरूपश्च मिश्रित एव परिणामो जायते । अर्द्धविशुद्धदर्शनमोहनीयपुञ्जोदयादर्धविशुद्ध तत्त्वश्रद्धानं भवति । यतो ह्यस्य त्रीण्यपि ज्ञानान्यज्ञानमिथितानि भवन्ति । तदेतत् अन्तर्मुहूर्तप्रमाण सम्यमिथ्याष्टिगुणस्थानमुच्यते । अन्तर्मुहू दूध्वं तु नियमत. सम्यक्त्वं, मिथ्यात्व वैवाधिगच्छतीति । ४ असंयतसम्यग्दृष्टिगुणस्थानम, (Vowless-Right-Belief-Stage) हिसानतादिभ्य. पापेभ्यो विरमणं विरतिस्तदेव विरतम्, तत्पुन सावद्ययोगप्रत्याख्यानम्, तदेतन्न तु जानाति, नाभ्युपगच्छति, नापि तत्पालनाय यतते, इत्येषा त्रयाणा पदानामष्टौ भेदाः जायन्ते । तत्र प्रथमेषु चतुर्विधेषु भेदेषु अज्ञानित्वान्मिथ्यादृष्टित्वम्, शेषेषु त्रिषु च ज्ञानित्वात्सम्यग्दृष्टित्वमुपपद्यते। सप्तभेदेषु नास्य विरतत्वमस्तीति-अविरतः, चरमे तु भेदे विरतिरस्त्येव । अतः विरमति स्म, सावद्ययोगेभ्यो निवर्तते स्मेति विरत', न विरतोऽविरतः, स चासो सम्यग्दृष्टिश्चेत्यविरतसम्यग्दृष्टिः । स च क्षायिकसम्यग्दृष्टिरौपशमिकसम्यग्दृष्टिायोपशमिकसम्यग्दृष्टि सावद्ययोगविरति सिद्धिरूपसौधाध्यारोहणनि श्रेणिकल्पां जानन्नप्यप्रत्याख्यानकषायविघ्नितत्वात् नाभ्युपगन्तु शक्नोति, नापि तत्परिपालनाय यतते, इत्यसावविरतसम्यग्दृष्टिस्तस्य गुणस्थानमविरतसम्यग्दृष्टिगुणस्थानम् ।
जनवर्शन आत्म-द्रव्यविवेचनम्