________________
(१३) सयोगिकेवलिगुणस्थानम् (Vibrating Omniciant Cong
ueror Stage)। (१४) अयोगिकेवलिगुणस्थानञ्चेति (Non-Vibrating Omniciant
Conqueror Stage)। एषु चतुर्दशष्वपि गुणस्थानेषु प्रथमतः समारभ्य क्रमशस्तत्तद्गुणस्थानमधिगतो जीवोन्ते सिद्धत्वमुपगच्छति" । अर्थात् प्रथमे मिथ्यात्वे गुणस्थाने जीवस्योदयिको भावः, द्वितीये पारिणामिकस्तृतीये च क्षायौपशमिकश्चतुर्थे च त्रय एव भावाः भवन्ति । तथा च पञ्चमे, षष्ठे, सप्तमे गुणस्थाने औपशमिकक्षायिकश्च भावी सम्पद्यते । ततश्च सर्वेष्वपि उपशमकक्षपकेषु गुणस्थानेषु क्षायिकोपशमिकप्रभावः । किञ्च, क्षायिको भावस्तु केवलमयोगिजिने एवं सम्पद्यते, यश्च सिद्धेत्यपरनाम्नाप्युच्यते । तत्र कस्मिन् गुणस्थाने कियतां बन्धहेतूनामभाष इत्यर्थमत्रचतुर्दशानामपि गुणस्थानां क्रमशो विवेचन क्रियते । f. fazaraficzy wreAA, (Delusion-Stage) गुणा: ज्ञानदर्शनचारित्ररूपा जीवस्वभावविशेषास्तेषां स्थानं शुद्धयशुद्धिप्रकर्षाप्रकर्षकृत स्वरूपभेद.। तिष्ठन्ति गुणा. यस्मिन्निति स्थानम्, गुणानां स्थानं गुणस्थानम् । तत्र मिथ्या-विपर्यस्ता, दृष्टिरहतप्रणीतजीवाजीवादिवस्तुप्रतिपत्तिर्यस्य स. मिथ्याष्टिस्तस्य यद्गुणस्थान तन्मिथ्याष्टिगुणस्थानमिति । अर्थाद्यस्य मिथ्यादर्शनोदयः, सः मिथ्यादृष्टिरस्ति" | मिथ्यादर्शनोदयाच्च तत्त्वेष्वश्रद्धानमुत्पद्यते। एतादृशस्य जीवस्य ज्ञानावरणक्षयोपशमादुत्पद्यमानानि श्रीण्येव ज्ञानानि मिथ्यात्वयुक्तानि भवन्ति । अत्र स्थितस्य जीवस्य मिथ्यात्वोदयात् या विपरीतदर्शनात्मिका बुद्धिर्जायते, तया यथा ज्वरिताय मधुरो रसो न रोचते, तथैवायमपि धर्मेषु नाभिलषति । नापि केनचिदप्युपदिष्टे वचने श्रद्दधाति, अपितु वस्तुनोऽसद्भाव तथाचानुपदिष्टे" वचने एव शृद्दधाति । सामान्यतश्चायं हिताहितपरीक्षाविरहितः, परीक्षकश्चेति भेदेन द्विविधो भवति । तत्र संज्ञिपर्याप्तकव्यतिरिक्ता एकेन्द्रियादय. सर्वेऽपि जीवाः हिताहितपरीक्षाविरहिता., संज्ञिपर्याप्तकाश्चोभयविधाः अपि भवन्ति । अत्र ज्ञानादिगुणा. कथं विपर्यस्ताया दृष्टौ सम्पद्यन्ते, इति नोचितं शङ्कनम्,
जनदर्शन आत्म-द्रव्यविवेचनम्