________________
चात्मा क्रमेणतेषां हेतूनां सर्वथा क्षयमुपलभते, स शुद्धो निर्मल: सम्यग्दर्शनज्ञानचारित्रयुक्त. सन् केवलत्वं भजते । चतुर्दशगुणस्थानानि आत्मनोऽयं विकासक्रमो यथा प्रचलति, तस्यका विशिष्टा श्रेणिरस्मिन् दर्शने स्वीकृता विद्यते, या नान्यस्मिन् कश्मिश्चिदपि दर्शने समवलोक्यते । सेयं सरणिश्चतुर्दशगुणस्थानरूपक्रमयुक्ता, यत्र मिथ्यादर्शनादीना क्रमशो विनाशः कथं जायते ? कस्य स्थानिकस्य जीवस्यायं विनाशः कियत्परिमाणे वा जायते ? इत्यादिकस्य सुस्पष्टं विवरणं विद्यते । तानि च चतुर्दशगुणस्थानानि निम्नाङ्कितानि
(१) मिथ्यादृष्टिगुणस्थानम् (Delusion-Stage)। (२) सासादनसम्यग्दृष्टिगुणस्थानम् (Dawn fall-Stage) । (३) सम्यमिथ्यादृष्टिगुणस्थानम् (Mixed-Stage)। (४) असंयतसम्यग्दृष्टिगुणस्थानम् (Vowless-Right-Belief
Stage)। (५) संयतासंयतगुणस्थानम् (Partial-Vow-Stage)। (६) प्रमत्तसंयतगुणस्थानम् (Imperfect-Vow-Stage)। (७) अप्रमत्तसंयतगुणस्थानम् (Perfect-Vow-Stage)। (८) अपूर्वकरण (उपशमकक्षपक) गुणस्थानम् (Newthought
Activity-Stage)। (९) अनिवृत्तिकरण (बादरोपशमकक्षपक) गुणस्थानम् (Advanced
thought-Activity-Stage) i (१०) सूक्ष्मसाम्पराय(उपशमकक्षपक)गुणस्थानम् (Slightest-Delu
sion-Stage)। (११) उपशान्तकषाय(वीतरागछद्मस्थ)गुणस्थानम् (Subsided
Delusion-Stage)। (१२) क्षीणकषाय (वीतरागछद्मस्थ) गुणस्थानम् (Delusionless
Stage)। मिथ्यावर्शनादीनां विनाशकमः
१९३