________________
ग्रहण भवति नान्यत्र स्थिताना, तथापि स्थितानामेव, न तु गतिशीलानाम् । अथ च गृहीता अनन्तानन्तकर्म परमाणव आत्मन सर्वेष्वपि प्रदेशेषु तिष्ठन्ति, एतदेवास्य प्रदेशबन्ध इति ।
मिथ्यादर्शनादीनां विनाशक्रमः
बन्धहेतूनां निरोधः
गतिस्वभावात्मकस्य जीवस्य काय वाङ्मनः परिस्पन्देन येषा कर्मणामागमनं जायते, तेषा द्रव्य भावात्मको बन्ध आत्मनि सम्पद्यते । तद्बन्धस्य च कारणानि मिथ्यादर्शनादीनि प्रसादकषाययोगाश्चेति पूर्वोक्तानि । एतेषा कर्मणां यावदागमनद्वाराणि नावरुन्धन्ति, तावत्तेषा सततमागमन भवत्येव, यावच्च तेषामागमनं तावद्बन्धोऽपि निरन्तर भवत्येव । बन्धस्य चतस्य नैरन्तर्यात् जन्ममरणादीनामपि चक्र सतत प्रचलिष्यत्येव । चक्रेणानेनात्मा सांसारिकत्व - मेवोपलभन् न कदापि स्वविशुद्धस्वरूपमधिगन्तु प्रभवति ।
स्वभावतस्त्वात्मातिविशुद्ध. निर्मलश्च, अतस्तत्स्वरूपाधिग्रहणार्थ, जन्ममरणपूर्वकससारचक्रान्मुक्त्यर्थ आत्मना यदि प्रयत्नानि विधीयन्ते तत्तस्य स्वाभाविकमेवोद्देश्यमित्यपि पूर्वमेव सुस्पष्टम् । अतोऽत्र मुमुक्ष ना यैमिथ्यादर्शनादिभिर्बन्धोऽधिगतस्तेषा विनाशाय तद्विनाशक हेतूनामाश्रयणमावश्यकम् ।
मिथ्यादर्शनादिभि बन्धहेतुत्वादास्रवद्वारिभिर्य आस्रवो जायते, तन्निरोधादेवागमनमवरुध्यते । तदेवोक्त वाचकमुख्यै- 'आस्रवनिरोध. संवरः " | अर्थात् कर्मागमननिमित्ताना काय वाङ्मनः प्रयोगानामनुत्पन्नत्वमेवास्रवनिरोध इत्युच्यते " । एवमात्रवनिरोधे च सति तत्पूर्वकानेकसुखदुःखबीजभूताना कर्मणामग्रहणमेव 'संवर. " इति ।
मिथ्यादर्शनाद्यास्रवप्रत्ययनिरोधादागामिकर्मणा निरोधात्मकोऽयं संवरः द्रव्यभावभेदात् द्विविधस्तत्र द्रव्यादिनिमित्ताद्भवान्तरप्राप्तिः ससार । तत्र निमित्तभूताना क्रियापरिणामाना निवृत्ति 'र्भावसवर. "", तथा च भावबन्धनिरोधात्तत्पूर्व कागतकर्मपुद्गलानां निरोधो 'द्रव्यसवर. ५ इत्युच्यते ।
१९५
बन्धहेतूनां विनाशक्रमः
अस्मात्सवरात् मिथ्यादर्शनादीनां यदावरोधो जातस्तदा कर्मणामपि अवरोधो जायते । कर्माभावे चात्मनो सांसारिकत्वस्यापि क्रमशो ह्रासः प्रारभते । यदा
१६२
जनवर्शन आत्म- द्रव्यविवेचनम्