________________
प्रवर्तते । अत्र दमवसेयम् यन्नरकायुर्मुखेन तिर्यगायुषः, मनुष्यायुषो वा विपाकस्तथा च चारित्रमोहरूपेण दर्शनमोहस्य, चारित्रमोहस्य च दर्शनरूपेण वा विपाको न" भवति ।
अनुभवोऽनुभागः, फलदानशक्तिर्वेति नामान्तराणि । अयमनुभागो बन्धकाले यथा प्राप्यते, नैकान्ततः स तादृश एव व्यवतिष्ठते, यतो हि स स्वावस्थानकाले कदाचित्परिणमति, कदाचिच्च न परिणमति । किन्तु यदायं परिणमति तदास्य तिस्रोऽवस्थास्तद्यथा-संक्रमणम्, उत्कर्षणम्, अपकर्षणञ्चेति । तत्र संक्रमणमवान्तरप्रकृतिष्वेव जायते, न तु मूलप्रकृतिषु । अवान्तरप्रकृतिषु चायुष्कर्मणः, दर्शनचारित्रमोहनीययोः सम्यग्मिथ्यात्व वेदनीयस्य च न संक्रमणं भवति ।
तदेतत् संक्रमणमपि चतुर्विधम्- प्रकृतिसंक्रमणम्, स्थितिसंक्रमणम्, अनुभागसक्रमणम्, प्रदेशसंक्रमणञ्चेति । तद्यथा- पत्र प्रकृतिसंक्रमणं प्रदेशसंक्रमणं वा प्रमुखं तत्र तु संक्रमणेनैव शब्दयते, किन्तु यत्र स्थितिसंक्रमणमात्रं, अनुभागसंक्रमण मात्र वा, तत्र तत्क्रमशरुत्कर्षापकर्षणेनोच्यते । बन्धकले तु या स्थितिः, अनुभागश्च प्राप्यते, तस्मिन् हासोऽपकर्षणम्, तथा च क्षीणस्थिती, क्षीणेऽनुभागे वा वृद्धिरुत्कर्षणमित्युच्यते ।
एवं विविधावस्थासु परिणममाने उदयकाले योऽनुभागो विद्यते स एव परिपच्यते । तद्यथा - अनुदयावस्थायां सम्प्राप्तानां प्रकृतीनां परिपाक उदयावाया सम्प्राप्तप्रकृतिरूपो भवति । यतो हि, उदितानां प्रकृतीनां फलं स्वमुखेनानुदितानाञ्च प्रकृतीनां फलं परमुखेनैव प्राप्यते ।
घात्यघातिभेदाभ्यां तु अनुभागस्य द्वैविध्यम् । तत्र घातिप्रकृतीनामनुभागो लता-दारु-अस्थि-शैलभेदात्मकश्चतुर्विधः । अघातिप्रकृतीनाञ्च पुण्यपापभेदाभ्या द्विविधो भवति । तत्र पुण्यप्रकृतीनामनुभागः गुड़-खण्ड-शर्कराअमृतरूपेषु चतुर्षु भागेषु विभक्तः, अथ च पापप्रकृतीनामपि निम्ब-काञ्जीरविष - हलाहलरूपेण चतुःप्रकारकोऽनुभागो भवति ।
प्रदेशबन्ध मेदाः (The number of karma Varganas ) कमंप्रकृतीनां कारणभूतानामेक क्षेत्रावगाहस्थितानामनन्तानां सूक्ष्मपुद्गलपरमाणूनां योगविशेषनिमित्तादात्मनः सर्वेष्वपि प्रदेशेषु यो बन्धो जायते, स प्रदेशबन्ध इति । अर्थात् येषा पुद्गलपरमाणूनां संसारावस्थाया जीवेन सर्वदैव ग्रहणं, तद्ग्रहणकारणञ्च योगः । अत्रात्मक्षेत्रस्थितानामेव सूक्ष्मपरमाणूनां
equate
१६१