SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ feafacerea ter: (Duration of the attachment of Karmic Matter) आत्मना गृहीतानां कर्मपुद्गलानां राशिर्यवत्कालमात्मप्रदेश: सम्बद्धा तिष्ठति, तावत्कालस्थितिरेव स्थितिबन्धत्वेनाभिधीयते । सेयं स्थितिद्विविधा " - उत्कृष्टस्थितिः, जघन्यस्थितिश्चेति । यद्यपि कर्मणां स्थितिः, बन्धेन संक्रमणेन, सत्त्वेन च त्रिधा भवति, परमत्र बन्धापेक्षयैवोत्कृष्टजघन्यरूपं द्वैविध्यं निर्दिष्टम् । अतोऽत्राष्टविधेषु कर्मसु चतुर्णा ज्ञान-दर्शनावरण- वेदनीयान्तरायकर्मणामुत्कृष्टा स्थितिस्त्रिशत्कोट्यकोटिसागरोपमा समानमाना भवति । मिथ्यादृष्टेः संज्ञिनः पञ्चेन्द्रियपर्याप्तकस्य जीवस्य मोहनीयकर्मणः परा स्थितिः सप्तति (७०) सागरकोटी कोट्यात्मिकावसेया । नामगोत्रयोः कर्मणोः ( उपरिलिखितस्य जीवस्य) विंशतिसागरोपमकोटी कोट्य उत्कृष्टा स्थितिः । आयुषश्च कर्मण उत्कृष्टा स्थितिस्त्रयस्त्रिशतकोटी कोट्यः सागरोपमा भवति । सर्वेषा - मपि कर्मणामयमुत्कृष्टा स्थिति. मिध्यादृष्टि-सज्ञि - पञ्चेन्द्रियं जीवमुद्दिश्य निर्दिष्टा । सूक्ष्मसाम्परायगुणस्थाने ज्ञान - दर्शनावरणान्तरायाणां अनिवृत्तिबादरसाम्परायगुणस्थाने च मोहनीयस्य, सख्येयवर्षायुष्केषु तिर्यक्ष मनुष्येषु चायुषो जघन्या स्थितिरन्तर्मुहूर्ता, वेदनीयस्य तु द्वादश मुहूर्ता, नामगोत्रयोश्चाष्टीमुहूर्त्ता जघन्या स्थितिर्भवतीति । अनुभावबंधमेदाः (The Fruition being Strong or Mild) बन्धकालेऽध्यवसायस्य तीव्रमन्दभावानुसारमेव कर्मषु तीव्रमंदफलदानशक्तिरुत्पद्यते । विविधफलदानशक्तिरेवानुभवपदवाच्या । बद्धकर्मणामुदयस्यावश्यम्भावित्वात्तेषामुदयात् फलदानानन्तरं कर्माण्यकर्मरूपाणि सम्भूयात्मप्रदेशेभ्योऽपसरन्ति । यावन्न फलदानकालः समायाति तावद्बद्धैः कर्मभिर्न सुखदुःखयोरनुभूतिर्भवति । बद्धकर्मणा शुभाशुभत्वात्तद्विपाकोऽपि शुभाशभात्मको भवति । तीव्र मन्दात्मकत्वाच्च तीव्र-मन्दो विपाक । F जीवाना शुभपरिणामप्रकर्षात् शुभप्रकृतीना प्रकृष्टोऽनुभवो, अशुभप्रकृतीनाञ्चानिकृष्टोऽनुभवः । अशुभपरिणामानां प्रकर्षभावात् अशुभप्रकृतीनां प्रकृष्टोऽनुभवः, शुभप्रकृतीनाञ्च निकृष्टोऽनुभवो जायते । सोऽयमनुभव एव निमित्तवशात् स्वमुखेन परमुखेन च द्विधा" प्रवर्त्तते । अत्र सर्वासामपि मूलप्रकृतीनामनुभवो यद्यपि स्वमुखेनैव प्रवर्तते, परं तुल्यजातीयानामुत्तरप्रकृतीनामायुदंगंनचारित्रमोहातिरिक्तानामनुभवः परमुखेनापि " जनदर्शन आत्म-द्रव्यविवेचनम् १००
SR No.010091
Book TitleJain Darshan Atma dravya vivechanam
Original Sutra AuthorN/A
AuthorM P Patairiya
PublisherPrachya Vidya Shodh Academy Delhi
Publication Year1973
Total Pages190
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy