Book Title: Jain Darshan Atma dravya vivechanam
Author(s): M P Patairiya
Publisher: Prachya Vidya Shodh Academy Delhi

View full book text
Previous | Next

Page 143
________________ रूपमिन्द्रियातीतं चैतन्यमेवास्ति । इदमेव चैतन्यमिन्द्रियमन प्रभृतिपदार्थनिमित्तात् नानाविधंविषयबुद्धिषु परिणतं भवति, एतासामुपाधीनां बिनम तस्य चैतन्यस्य स्वस्वरूपयुक्तत्वं स्वाभाविकम् । यद्यप्यत्र कर्मजन्यानां सुखदुःखादीनां विनाशः, कर्मणां क्षयोपशमजन्यस्य क्षायोपशमिकज्ञानस्य स्थितिश्च जमैरपि स्वीकृता विद्यते, परमात्मनः स्वस्वरूपचैतन्यस्य विनाशः स्वरूपस्याच्छेदकत्वान्न कथमपि स्वीकृतम् । इत्थं ज्ञायते, यदत्र 'आत्मनिर्वाणम्' न तु दीपनिर्वाणवत्स्वीकरणीयम्, मात्र तत्र गुणानामत्यन्तो विनाश. । यतो हि, अत्र क्लेशादीनां कर्मणा वा विनाश, स्यायमेवार्थ उपयुक्तः यत्-कर्मपुद्गलाः जीवात्सर्वथा पृथक्त्वं-भिन्नत्वं लभन्ते, . न तेषामत्यन्तो विनाशः कदापि जायते । यतो हि, पदार्थदृष्ट्या न कस्यचिदपि सत्पदार्थस्यात्यन्तो विनाशो जातः, जायते, भविष्यति वा। पर्यायान्तरेण परिणमनमेव पूर्वपर्यायस्य नाश इत्युच्यते। एवं न तु निर्वाणदशायामात्मनोऽभावो भवति, नापि तद्गुणानां सर्वथोच्छेदात् अचेतनत्वमुपगच्छति सः । यदा खल्वात्मा स्वतन्त्रो मौलिको वा पदार्थस्तदा तदभावस्य तद्गुणोच्छेदस्य वा कल्पनमनुचितमेवेति। सम्यग्दर्शनम् जडपदार्थेभ्य आत्मनो व्यावर्त्तकमात्मगुणभूतं चैतन्यं निराकाररूपं दर्शनं, साकाररूपञ्च ज्ञानमित्युच्यते । एतयोर्द्वयोरपि आत्मनि सान्निध्यात् सहभाविगुणात्मकत्वात् 'उपयोग इत्यपि संज्ञास्ति । एष उपयोगश्चात्मनो लक्षणम् । अतो यदाऽऽत्मा पदार्थानवगच्छति तदा तेषां पदार्थानां य. निराकारात्मकोऽवबोधस्तद्दर्शनम्, यश्च साकारात्मकोऽवबोधस्तज्ज्ञानमित्युच्यते । एतस्य दर्शनस्य विवेचने वाचकमहोदयैरभिहितं यत् 'तत्त्वार्थभवानं सम्यग्दर्शनम्॥ अर्थात् योऽर्थः यथावस्थितस्तस्य तथैव श्रद्धानं तत्वार्थश्रद्धानम् । एतदेव सम्यग्दर्शनं वस्तुनो यथार्थस्वरूपस्य प्रथमनिराकारग्रहणमित्यर्थः । यद्यपि संस्कृतवाङ्मये दर्शनशब्दस्य विभिन्नाः व्याख्याः विद्यन्ते, यासु प्रमुखानां विवेचनं प्रथमेऽध्याये कृतम् । तासु दर्शनस्य व्याख्या चैतन्याकारपरिधिमुल्लध्य पदार्थानां सामान्यावलोकनं यावत्समागता। जैनसिद्धान्ते चास्य निराकाररूपेणान्तरङ्गार्थविषयकत्वमेव स्वरूपं स्वीकृतम् । तत्र विषयविषयिणोः सन्निपात एव दर्शनमिति स्वीकृतम् । अर्थाद्यदायमात्मा पदार्थसम्यग्दर्शन २११

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190