Book Title: Jain Darshan Atma dravya vivechanam
Author(s): M P Patairiya
Publisher: Prachya Vidya Shodh Academy Delhi

View full book text
Previous | Next

Page 141
________________ एतेषाञ्च ज्ञानाद्देवमनुष्यादीनां कामभोगादीनामपि ज्ञायकत्वा तेभ्यो विरक्तो भवति, ततश्चैतेभ्यो भोगेभ्यो बाह्याभ्यन्तरसम्बन्धोऽपि विच्छेदयति, तस्मादनागारवृत्तिधारकः सन् उत्कृष्टसंयममनुत्तरं धर्मं च संस्पर्शति, एतेन संयमधर्मसंस्पर्शनेन अज्ञानात् सञ्चितं कलुषितकर्मरजः संधुनोति, तेन स केवलज्ञानं केवलदर्शनञ्च लभते । एतस्माल्लाभात् केवलीति भूत्वा, लोकालोकज्ञः सन् योगाश्च निरुध्य शैलेश्याख्यामवस्थामधिगतः कर्मणां सर्वथा क्षयं विधाय सिद्धो भूत्वा लोकाग्रे तिष्ठन् शाश्वतः सिद्धो जायते इति । अन्यश्चायं क्रमः स्थानाङ्गे' महावीर - गौतमसम्वादे इत्थं विद्यते - तथारूपस्य श्रमण-ब्राह्मणस्य पर्युपासनायाः फलं श्रवणम्, श्रवणफलञ्च ज्ञानम्, ज्ञानफलञ्च विज्ञानम्, एतत्फलञ्च प्रत्याख्यानत्यागः, तस्य च फलं संयमरूपः, संयमस्यानास्रवः, अनास्रवस्य च तप, तपसश्च व्यवदानम् - कर्मणा निर्जरणम्, व्यवदानस्य तु फलमक्रिया (योगाभाव ), अक्रियायाश्च फलं निर्वाणम्, एतस्य च फलरूपेण सिद्धगतौ गमनं भवतीति । अपरश्च तृतीयः क्रम इत्थ विद्यते दशाश्रुतस्कंधे- रागद्वेषविरहितो निर्मलचित्तवृत्तेर्धारको जीवो धर्मध्यानमधिगच्छति । निःशङ्कमनसा धर्मस्थितेन च निर्वाणमुपलभ्यते । एतादृश स संज्ञिज्ञानात् स्वीयमुत्तमस्थानं विजानाति । अथ च य. खलु सर्वकामविरक्त, सहिष्णुश्च भवति, तस्य संयमधनस्य तपस्विनोऽवधिज्ञानमुत्पद्यते । स च तपसाऽशुभलेश्याः अपावृत्याafaज्ञान निर्मल विदधाति । ततः ऊर्ध्वमधस्तिर्यग्लोकस्थिताना सर्वेषामपि जीवादीनां पदार्थानां प्रत्यक्षज्ञानेन युज्यते । अथ च सर्वथा शुभलेश्याधारणात् तर्क-वितर्कजन्यचाञ्चल्यविरहितचित्तस्य, सर्वथा विमुक्तस्य तस्य मन:पर्ययज्ञानमुत्पद्यते । यदा च तस्य ज्ञानावरणीयं सर्वथा क्षयमधिगच्छति, तदा स केवलज्ञानी जिनो भूत्वा लोकालोकयोर्ज्ञाता भवति । तथा च प्रतिमाना विशुद्धाराधनजन्य मोहनीयक्षयमधिगच्छन् सर्वविधान्यपि कर्माणि विनाश्य, देहञ्च परित्यज्य नाम - गोत्र - आय्वादिविरहितः सन् कर्मरजसा सर्वथा विप्रमुक्तत्वमुपलभते । एवमत्र जैनदर्शन आत्मन. कर्मणां सर्वथोच्छेद एव 'मोक्ष' इति स्वीकृतमर्थात् आत्मनः कर्मणाञ्च द्वयोरपि पदार्थयोः पृथक् र स्वस्वरूपेण स्थितिरेव 'मोक्ष' इति । आत्मनः कर्माणि विमुञ्च्य स्वशुद्धरूपेणावस्थानम्, कर्मणाञ्चात्मसंश्लेषणं परित्यज्य स्वस्वरूपेण तस्मात्पृथगवस्थानमित्यर्थः । मोक्षो मोक्षमार्गश्च २०६

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190