Book Title: Jain Darshan Atma dravya vivechanam
Author(s): M P Patairiya
Publisher: Prachya Vidya Shodh Academy Delhi

View full book text
Previous | Next

Page 113
________________ स्तिष्ठन्ति यैर्न कोऽपि जगतः सर्जकः इति सिध्यति । नाप्यसंख्यजातीनां जगद्वैचित्र्यस्यास्य केनाप्येकेन निर्माण सम्भवं स्यात् । वस्तुतस्तु प्रत्येकमेव जीवः स्वीयस्य जगतः स्वयमेव स्रष्टा । स्वयमेव स्वीयस्य शरीरादिरूपस्यास्य जगतः स्रष्टा कथं सः सिध्यतीति कर्मसिद्धान्ताना विवेचनेन मननेनाध्ययनेन च सुस्पष्टतया ज्ञायते। किमिदं नाम कर्म ? राग-द्वेषादियुक्तेऽस्मिन् संसारिजीवे प्रतिसमय परिस्पन्दरूपात्मिका क्रिया भवन्ती तिष्ठति, तन्निमित्तेनात्मनि एकमचेतनं द्रव्यं यदा बीजरूपमागच्छति, तदेव रागद्वेषादिपरिणामनिमित्तादात्मनि वन्धत्वमधिगच्छति । यच्च काले प्राप्ते सति मुखदुःखरूपपरिणामफलं दातु क्षम जायते, तदेव कर्मेति कथ्यते । यथा खल्वाकरे स्वर्ण-पाषाणयोरनादिकालिकस्सम्बन्ध. प्रचलन्नद्यापि विद्यते, तर्थव जीवकर्मणामप्यनादिकालिकः सम्बन्धो विद्यते। जीवोऽनादिकालतस्तु सर्वथा शुद्ध चैतन्यस्वरूप एवासीत्पश्चात्कस्मिश्चित्काले तस्य कर्मभिस्सम्बन्धः सजात , नैतादृशी व्यवस्था विद्यते, यतश्च जीवकर्मणामनादिस्सम्बन्धस्सर्वैरेव स्वीक्रियते । यतो ह्यस्य कर्मग्रहणस्वभाव., स्त्रभावश्च कारणं विनैव सहजतया जायते । प्रकृति., शीलमप्यस्यैव नामान्तराणि । यथा खल्वग्नेरूर्ध्वगमन, वायोस्तिर्यग्गमन, जलस्य चाधोगमन स्वभावस्तथैवात्मनो स्वभावः रागादिरूपपरिणाम , रागादीनाञ्च स्वभावो रागादिरूपपरिणामयकः। कर्मणां रागाद्युत्पादकत्वम् यथा खलु भङ्ग-मदिरादिमादकपदार्थानां मादकस्वभावस्तदुपयोगकानाञ्च तन्मदेन मत्तस्वरूपो परिणामः, तथैव जीवस्वभावो रागद्वेषादिकषायरूपपरिणमनम्, तथा च कर्मणां रागादिकषायस्वरूपेण जीवस्य परिणामकः, यावच्चानयोईयोस्सम्बन्धस्तावदेव विकाररूपो जीवस्य परिणाम । अयञ्चानादिकालत एव स्वतस्सम्बन्धयुक्तोऽस्ति । अत्र जीवस्यास्तित्वमहमित्यात्मिक्या प्रतीत्या, कर्मणाञ्चास्तित्वं जीवानां भिक्ष क-श्रीमतादिरूपवैचित्र्यपरिणामेन प्रत्यक्षत एव५५ दृश्यते । प्रनादिः कर्मपरम्परा अद्याप्ययमात्मा स्थूल-सूक्ष्म-कर्मशरीराभ्यां बद्धो विद्यते । अस्य ज्ञान, सवेदन, सुखदुःखानि, जीवनशक्तिश्चापि, सर्वेऽपि शरीराधीनाः । शरीरे च विकारे १६० जैनदर्शन आत्म-द्रव्यविवेचन

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190