Book Title: Jain Darshan Atma dravya vivechanam
Author(s): M P Patairiya
Publisher: Prachya Vidya Shodh Academy Delhi

View full book text
Previous | Next

Page 125
________________ भवति । एवमेवोर्ध्वगुणस्थानवतिषु जीवेषु येषां कर्मणां जघन्यः स्थित्यनुभागप्रदेशबन्धस्तेषामजघन्योऽपि बन्धस्तथैव" चातुर्विध्येन तिष्ठति । उपशमश्रेण्यारोहक: सूक्ष्मसाम्पराय (दशम) गुणस्थानवी जीव उत्कृष्टोच्चर्गोत्रस्यानुभागबंधानन्तरमुपशातकषाय(एकादश)गुणस्थानवर्ती जातः, पुनश्च ततोऽवरुह्य सूक्ष्मसाम्परायगुणस्थाने समागतः, अतोऽत्रानुत्कृष्टोच्चैर्गोत्रस्यानुभागबन्धः, एतदेवास्य सादिबन्धत्वम् । यतोह्यत्रास्य बंधस्य पूर्वमभाव एवासीत्, ततश्चोत्पत्तिः सजाता । सूक्ष्मसाम्परायादध स्थानां त्वयं बन्धोऽनादिविद्यते । अथ चाभव्यानामयमेव बन्धो ध्र व., उपशमश्रेणिनाञ्चानुत्कृष्टबन्धातिरिक्तमुत्कृष्टो यो बन्ध. सोऽध्र वबन्ध इत्युच्यते । यथा कश्चन मिथ्यादृष्टिर्जीव. सप्तमनरकपृथिव्या प्रथमोपशमसम्यक्त्वाभिमुखस्तत्र मिथ्यादृष्टि (प्रथम)गुणस्थानस्यान्तकाले जघन्यनीचैर्गोत्रस्यानुभागबधानन्तरं सम्यग्दृष्टिः सन्नप्यनन्तर पुनः मिथ्यात्वोदयान्मिथ्यादृष्टिर्जायते । तत्राजघन्यनीचर्गोत्रस्यानुभागो बध्यते। अत्रायमजघन्यनीचर्गोत्रस्यानुभागबन्ध. सादिबन्धः । तस्यैव मिथ्यादृष्टेर्जीवस्य तदेतत्समयात्प्रागेव यो बन्धः सोऽनादिरिति । इमे उत्कृष्टानुत्कृष्टादिभेदा' प्रकृतिबन्धादन्येषु विष्वेव भवन्ति । प्रकृतिबन्धस्य भेदाः (Nature of Karmic Matter) ज्ञानावरणादिकर्मप्रकृतिषु ज्ञानदर्शनादिविघातको य स्वभाव स एव प्रकृतिबन्ध इत्युच्यते । सोऽय प्रकृतिबन्धो" द्विविध -मूलप्रकृतिबन्ध , उत्तरप्रकृतिबन्धश्चेति । तत्र मूलप्रकृतिबन्धोऽष्टविधस्तथाहि"- (१) ज्ञानावरणम् (Knowledge obscuring), (२) दर्शनावरणम् (Conation Obscuring), (३) वेदनीयः (Feeling), (४) मोहनीयः (Deluding), (५) आयुः (Age), (६) नाम (Body-Making), (७) गोत्रम् (Family Determining), (८) अन्तरायश्चेति" (Obstructive)। अत्र ज्ञानमावियतेऽनेन, आवणोति वा यत्तद् ज्ञानावरणम् । दर्शनमावियतेऽनेन, दर्शनमावृणोति वा यत्तदर्शनावरणम् । वेदयति, वेद्यते इति वा वेदनीयम् । मुह्यतेऽनेन मोहयति वेति मोहनीयम् । येन नारकादिभवमेतीत्यायुः । नम्यतेऽनेन, नमयति वात्मानमिति नाम । येनात्मोच्चैर्नीचर्वागूयते-शब्द्यते इति गोत्रम् । दातुर्देयादीना वा मध्येऽन्तर वैतीति अन्तरायः । यथा च सकृदुप१८० जनदर्शन आत्म-द्रव्यविवेचनम्

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190