________________
भवति । एवमेवोर्ध्वगुणस्थानवतिषु जीवेषु येषां कर्मणां जघन्यः स्थित्यनुभागप्रदेशबन्धस्तेषामजघन्योऽपि बन्धस्तथैव" चातुर्विध्येन तिष्ठति ।
उपशमश्रेण्यारोहक: सूक्ष्मसाम्पराय (दशम) गुणस्थानवी जीव उत्कृष्टोच्चर्गोत्रस्यानुभागबंधानन्तरमुपशातकषाय(एकादश)गुणस्थानवर्ती जातः, पुनश्च ततोऽवरुह्य सूक्ष्मसाम्परायगुणस्थाने समागतः, अतोऽत्रानुत्कृष्टोच्चैर्गोत्रस्यानुभागबन्धः, एतदेवास्य सादिबन्धत्वम् । यतोह्यत्रास्य बंधस्य पूर्वमभाव एवासीत्, ततश्चोत्पत्तिः सजाता । सूक्ष्मसाम्परायादध स्थानां त्वयं बन्धोऽनादिविद्यते । अथ चाभव्यानामयमेव बन्धो ध्र व., उपशमश्रेणिनाञ्चानुत्कृष्टबन्धातिरिक्तमुत्कृष्टो यो बन्ध. सोऽध्र वबन्ध इत्युच्यते । यथा कश्चन मिथ्यादृष्टिर्जीव. सप्तमनरकपृथिव्या प्रथमोपशमसम्यक्त्वाभिमुखस्तत्र मिथ्यादृष्टि (प्रथम)गुणस्थानस्यान्तकाले जघन्यनीचैर्गोत्रस्यानुभागबधानन्तरं सम्यग्दृष्टिः सन्नप्यनन्तर पुनः मिथ्यात्वोदयान्मिथ्यादृष्टिर्जायते । तत्राजघन्यनीचर्गोत्रस्यानुभागो बध्यते। अत्रायमजघन्यनीचर्गोत्रस्यानुभागबन्ध. सादिबन्धः । तस्यैव मिथ्यादृष्टेर्जीवस्य तदेतत्समयात्प्रागेव यो बन्धः सोऽनादिरिति । इमे उत्कृष्टानुत्कृष्टादिभेदा' प्रकृतिबन्धादन्येषु विष्वेव भवन्ति ।
प्रकृतिबन्धस्य भेदाः (Nature of Karmic Matter) ज्ञानावरणादिकर्मप्रकृतिषु ज्ञानदर्शनादिविघातको य स्वभाव स एव प्रकृतिबन्ध इत्युच्यते । सोऽय प्रकृतिबन्धो" द्विविध -मूलप्रकृतिबन्ध , उत्तरप्रकृतिबन्धश्चेति । तत्र मूलप्रकृतिबन्धोऽष्टविधस्तथाहि"- (१) ज्ञानावरणम् (Knowledge obscuring), (२) दर्शनावरणम् (Conation Obscuring), (३) वेदनीयः (Feeling), (४) मोहनीयः (Deluding), (५) आयुः (Age), (६) नाम (Body-Making), (७) गोत्रम् (Family Determining), (८) अन्तरायश्चेति" (Obstructive)। अत्र ज्ञानमावियतेऽनेन, आवणोति वा यत्तद् ज्ञानावरणम् । दर्शनमावियतेऽनेन, दर्शनमावृणोति वा यत्तदर्शनावरणम् । वेदयति, वेद्यते इति वा वेदनीयम् । मुह्यतेऽनेन मोहयति वेति मोहनीयम् । येन नारकादिभवमेतीत्यायुः । नम्यतेऽनेन, नमयति वात्मानमिति नाम । येनात्मोच्चैर्नीचर्वागूयते-शब्द्यते इति गोत्रम् । दातुर्देयादीना वा मध्येऽन्तर वैतीति अन्तरायः । यथा च सकृदुप१८०
जनदर्शन आत्म-द्रव्यविवेचनम्