________________
भक्तस्यान्नस्य रस-रुधिरादिरूपेणानेकविध परिणमनं तथैवैकेनात्मपरिणामेन सकृद् गृहीताः कर्मपुद्गलाः ज्ञानावरणाद्यनेकभेदान् प्राप्नुवन्ति । उपरिलिखितस्य मूलप्रकृतिबन्धस्याष्टानामेव भेदानां येऽवान्तरभेदाः उत्तरभेदाः वा भवन्ति, त एवोत्तरप्रकृतिबन्धेनोच्यन्ते । ते च यथा--ज्ञानावरणस्य पञ्चभेदाः, दर्शनावरणस्य नवभेदाः, वेदनीयस्य द्वौ भेदौ मोहनीयस्याष्टाविशतिभेदाः, आयुषश्चत्वारो भेदाः, नाम्नो द्विचत्वारिंशभेदाः, गोत्रस्य द्वी भेदौ, अन्तरायस्य पञ्चभेदाश्चेति । ज्ञानावरणभेदाः (Knowledge obscuring) येन वस्तुनो विशेषधर्माणा ज्ञानं भवति, तज्ज्ञानमिति । तच्च येन कर्मणावियते, तज्ज्ञानावरणीय कर्मेति । यथा चक्षुषो वस्त्रेणावृते सति चक्षुर्ज्ञानमावियते, तथैव ज्ञानावरणीयकर्मप्रमावादात्मन पदार्थज्ञानमावियते" । ज्ञानावरणकर्मण उत्तरप्रकृतयश्च पञ्चविधास्तथाहि(क) मतिज्ञानावरणीयकर्म-इन्द्रियैर्मनसश्चोत्पद्यमानमाभिनिबोधिकाख्यं ___मतिज्ञान यत्कर्मावृणोति तन्मतिज्ञानावरणीयं कर्मेत्युच्यते । (ख) श्रतज्ञानावरणीयकर्म-शब्दार्थयो पर्यालोचनजन्यं श्रुतज्ञानं यदावृणोति
तन् श्रुतज्ञानावरणीयकर्मेति । (ग) अवधिज्ञानावरणीयकर्म-इन्द्रियमनसा साहाय्यं विनव, रूपिपदार्थानां
मर्यादित प्रत्यक्षज्ञानमवधिज्ञान यदावणोति, तदवधिज्ञानावरणीयं कर्म । (घ) मनःपर्ययज्ञानावरणीयकर्म-इन्द्रियमनसामसाहाय्येन संज्ञिजीवानां ___ मनोगताना भावाना ज्ञायक मन.पर्ययज्ञानमावृणोति यत्कर्म तन्मन:
पर्ययज्ञानावरणीयकर्म। (ङ) केवलज्ञानावरणीयकर्म-सर्वद्रव्यपर्यायाणा योगपद्येन प्रत्यक्ष ज्ञानं
केवलज्ञान यत्कर्मावृणोति, तत् केवलज्ञानावरणीयकर्मेति । अत्र मतिज्ञानवरणीयादीनि चत्वारि देशघातिकर्माणि, केवलज्ञानावरणीय तु देशघाति-सर्वधातिभेदेन द्विविधम् । asiaraconturatei (Conation Obscuring) पदार्थानामाकाराद्व्यतिरिक्ताना विशेषाणामग्रहणपूर्वकं केवलं सामान्यस्य बन्धस्तषेतको भेवाश्च
१८१