________________
ग्रहणं दर्शनम्, तदावरणभूतं यत्कर्म तद्दर्शनावरणीयमिति । अस्योत्तरप्रकृतयो नवविधास्तथाहि - (क) चक्षुर्वर्शनावरणीयकर्म-चक्षुषा जायमानो सामान्योऽवबोधश्चक्ष -
दर्शनम् । तदावियते येन तच्चक्ष दर्शनावरणीयम् । (ख) प्रदर्शनावरणीयकर्म-चक्ष :यतिरिक्तेन्द्रियमनसोत्पद्यमानमचक्ष -
दर्शनम् । तदावरणभूतमचक्ष दर्शनावरणीयमिति । (ग) प्रवषिवर्शनावरणीयकर्म-इन्द्रियमनसा साहाय्येनोत्पद्यमानमवधि
दर्शनम् रूपिद्रव्याणां सामान्योऽवबोधः । तदावरणभूतमवधिदर्शना
वरणीयकर्म। (घ) केवलवर्शनावरणीयकर्म-सर्वद्रव्यपर्यायाणां युगपत्साक्षात्सामान्योऽ
वबोधः केवलदर्शनमिति । तदावरणभूतं केवलदर्शनावरणीयं कर्म । (ड) निद्रा-मद-खेद-क्लेदादीन्नपनेतुं स्वापो निद्रा। येन सुखपूर्वकं जागरणं
सम्पद्यते तन्निद्रादर्शनावरणीयं कर्म । (च) निद्रानिद्रा-निद्राया उत्तरोत्तरप्रवृत्तिः निद्रानिद्रा । येन कर्मणा सुप्तो
जीवः काठिन्येन निद्रामुक्तो भवितु शक्नोति, तन्निद्रा-दर्शनावरणीय
कर्म । (छ) प्रचला-शोक-श्रम-भयादिकारणरुत्पन्ना, आसीनस्यापि प्राणिनो नेत्र
गात्र-विक्रियायाः सूचिका या क्रियात्मानं प्रचालयति सा प्रचला। येन कर्मणा उत्तिष्ठन्, उपतिष्ठन् वा निद्रायुक्तो भवति, तत् प्रचलादर्शना
वरणीयं कर्म। (ज) प्रचला-प्रचला-प्रचलायाः पुन पुनरावृत्तिः प्रचलाप्रचला। येन कर्मणा
गच्छन्नपि निद्रितो भवति तत् प्रचलाप्रचलादर्शनावरणीयं कर्म । (स) स्त्यानगृतिः-स्त्याने स्वप्नेऽपि गृद्ध्यति दीप्यते, अर्थात् यस्याः निमित्तेन
स्वप्नेऽपि वीर्यविशेषस्याविर्भावः स स्त्यानगृद्धिः । येन कर्मणा स्वपन्नपि
जीवः कार्यसंलग्नस्तिष्ठतु, तत् स्त्यानगृद्धिदर्शनावरणीयकर्मेति । तत्त्वार्थसूत्रस्य श्वेताम्बरीयपाठे भाष्ये च निद्रादिकान्ते वेदनीयशब्द प्रयुक्तम्, दिगम्बरपाठे चैतन्न विद्यते । सर्वार्थसिद्धौ च प्रत्येकमपि दर्शनावरणीयकर्मणः संयोगस्य निर्देशः कृतः ।
१५२
जैनदर्शन आत्म-प्रध्यविवेचनम्