________________
साम्परायिकानवाबत्कर्म बन्धत्वमधिगच्छति, तस्येमे चत्वारो रूपाः भवन्ति । बन्धमधिगतस्य कर्मणः कः स्वभावः ? कियती च स्थितिः ? स्वभावानुसारञ्च । न्यूनमधिकं वा कियत्काल कार्यक्षम तिष्ठति ? अथ चात्मना कियत्प्रमाणेन बन्धमाप्नोति ? एषां चतुर्णामपि पूर्वापरयोः योगकषायो निमित्तभूतौ । अतो यत्र योगकषाययोरभावस्तत्र कर्मबन्धस्याप्यभावः। कषायस्तु दशम गुणस्थानं यावदेव प्राप्यते, एकादशतमे गुणस्थाने न कषायात्मको जीवपरिणामः, द्वादशतमे च गुणस्थानेऽस्योच्छेदोऽत: जीवस्य स्थित्यनुभागबन्धौ दशमगुणस्थानं यावदेव भवतः । किन्त्वेकादशद्वादशत्रयोदशतमेषु गुणस्थानेषु कषायाभावेऽपि सवेद्यस्य प्रकृतिबन्धः स्थितिबन्धश्च जायते । किञ्च, यद्येषु गुणस्थानेषु स्थिति विनैव सद्वेद्यस्य बन्धस्तत्कथं तस्यात्मन्यवस्थानम् ? अथ चानुभागबन्धं विनवतस्य सद्वेद्यरूपो विपाकोऽपि कथं भविष्यति ? इति शङ्कनमनुचित, यतो ह्यषु गुणस्थानेषु कर्मणां गमनागमनमीर्यापथास्रवमाध्यमेनैव सम्पद्यते, न तेषां कर्मणां तत्रैकाधिकसमयं यावदवस्थानं, अतएवात्र स्थितिबन्धस्य निषेधस्तया च कषायनिमित्तकस्यानुभागबन्धस्यात्रानन्तगुणहीनात्मकत्वादेतस्याप्यभावः । कषायस्तावदशमगुणस्थानं यावदेव तिष्ठत्यतएव स्थित्यनुभागबन्धावपि दशमगुणस्थानं यावद्भवतः। योगस्तु त्रयोदशतमगुणस्थानं यावद्भवत्यतः प्रकृति-प्रदेशबन्धावपि त्रयोदशगुणस्थानं यावद्भवतः । अयोगकेवलिगुणस्थाने तु योगस्याप्यभावान्न तत्र कश्चनापिविधो बन्धो भवति । चतुर्विधबन्धस्यान्ये प्रमुखाः भेदाः बन्धस्य प्रकृति-स्थिति-अनुभाग-प्रदेशाश्चत्वारः प्रमुखाः भेदास्तत्र प्रत्येकमप्युत्कृष्ट-अनुत्कृष्ट-जघन्य-अजधन्यात्मकश्चतुर्विधो" भवति । अत्रापि च प्रत्येक सादि-अनादि-ध्र व-अध्र वभेदात्मकश्चातुर्विध्यं भजते । अत्र निरन्तरं यद्बध्यते, स ध्र वो बन्धः, यश्च सान्तरं बध्यते, सोऽध्र वो बन्धः । तत्र मिथ्यादर्शन-सासादनावोऽर्वगुणस्थानवतिषु गुणस्थानप्रतिपन्नेषु जीवेषु, येषां कर्मणामुत्कृष्ट: स्थित्यनुभागप्रदेशबन्धस्तेषामेव कर्मणामनुत्कृष्टोऽपि स्थित्यनुभागबन्धस्तत्र भवति । स च साधनादिभेदेन चतुर्विधो बन्धस्तषेतवो मेराश्च
१७९