________________
मिथ्यात्वादिहेतुनाञ्चाभावे कर्मपुद्गलानां न प्रवेशो भवितुमर्हति तदभावे च बन्धाभावः । अतो मिथ्यात्वादय आस्रवश्चैव बंधोत्पत्तिहेतुभूताः । बन्धानन्तरमात्मप्रदेशसम्बद्धानि कर्माणि सद्य एव फलदानि स्युर्नैतादृशः कश्चन नियमः । यतश्च बंधकालात्समारभ्य फलदानकालं यावत् सत्तारूपेणैव कर्माणि तिष्ठन्ति । अस्यामेवावस्थायां द्रव्याणामियं बन्धस्थितिः 'द्रव्यबन्ध' इत्युच्यते । अतोऽनंतर फलदानावस्थितानि कर्माणि सुखदुःखादीन्नुत्पादयन्ति । अतोऽत्र कर्मणां यदा फलदानशक्तिरुदेति संवावस्था 'भावबन्ध' इत्युच्यते ।
यथा खलु जन्मग्रहणकाले भावी तीर्थङ्करो द्रव्यतीर्थङ्कररूप:, तथा च सयोगकेवलिगुणस्थानं सम्प्राप्य वस्तुतस्तीर्थङ्करत्वमधिगच्छति तदा स भावतीर्थङ्कर इत्युच्यते । तथैव बद्धकर्मणा स्थितिद्रव्यबन्धः, उदयानन्तर फलदायकानां कर्मणां शक्तिर्भावबन्ध इत्युच्यते ।
कर्माणि द्विविधानि शुभाशुभाख्यानि । तत्र शुभकर्माणि पुण्येनाशुभकर्माणि च पापेनाप्युच्यन्ते । जीवप्रदेशः शुभाशुभकर्मणा संश्लेषापेक्षया बंधोऽपि शुभाशुभभेदेन द्विविधो भवति । इत्थमयं बन्धो मूलतो द्रव्यभावबन्धेन पुण्यपापबन्धेन चापि द्विविधो भवति ।
बन्धस्य चातुविध्यम्
जीवः खल्वावमध्यमेन कर्मयोग्यपुद्गलान् संगृह्य कर्मरूपेण परिणमयति । कर्मणाञ्च स्वभावाः भिन्नाः सन्ति । अतोऽत्र कर्मणां स्व-स्वभावयुक्तो जीवेण सम्बन्ध' (Nature of Bondage ) " स प्रकृतिबन्ध इत्युच्यते ।
1
प्रत्येकमपि प्रकृतेः कर्मनिर्धारितकालं यावदेवात्मप्रदेशैः सम्बन्धस्तिष्ठति । अर्थादात्मना गृहीता पुद्गलकर्म राशिर्यावत्कालमात्मप्रदेशेषु तिष्ठति, सा मर्यादा (Duration of bondage) 'स्थितिबन्ध'" इत्युच्यते ।
कर्मणः शुभाशुभफलस्य तीव्रता मन्दता वा रसपदवाच्या । उदयावस्थाया कर्मणोऽनुभवस्तीव्रो मन्दो वा कीदृशो भविष्यतीति प्रकृत्याद्यनुसारं कर्मबन्धकाले एव निर्धारितो भवति । तत्रायमनुभव एव 'अनुमावबन्ध ' ( Maturity with duration)।
आत्मनोऽसंख्येयाः प्रदेशास्तत्र कैकस्मिन्नपि प्रदेशेऽनन्तानन्तकर्मवर्गणानां संग्रहः ‘प्रदेशबन्धः' । अर्थात् जीवपुद्गलयोः प्रदेशानामेक क्षेत्रावगाहनपूर्विका स्थिति: (Quantity of karmic moleculer) 'प्रदेशबन्ध" इत्युच्यते । इत्थमिमे बन्धस्य चत्वारो भेदा' ।
१७८
जनदर्शन आत्म द्रव्यविवेचनम्