________________
ताः देशप्रत्याख्यानमावृण्वन्तोऽप्रत्याख्यानावरणाः क्रोध- मान-माया-लोभभेदाच्चतुर्विधाः । अथ च संयमेन सहावस्थानादेकीभूताः ज्वलन्ति, अथवा एषु सत्स्वपि संयमो ज्वलतीति सञ्ज्वलना, क्रोध मान-माया-लोभभेदाच्चतुविधाः । इत्थमिमे सर्वे समुदिताः षोडशविधाः कषायाः भवन्ति तथा चोपर्युक्तः नवन कषायैः सह पञ्चविशतिविधाः भवन्तीति ।
५. योग. ( Vibration )
कायवाङ्मनसां प्रवृत्तिर्योगः " । आत्मप्रदेशपरिस्पन्दो" वा योगः । स च कायवाङ्मनसापेक्षया त्रिविधस्तत्र वीर्यान्तरायकर्मणः क्षयोपशमे सत्यौदारिकादिसप्तविधकायवर्गणास्वन्यतमवर्गणालम्बनापेक्ष आत्मप्रदेशपरिस्पन्दः काययोग: "(Body-Vibration) प्राणातिपातादत्तादानमैथुनादिभेदैः पञ्चविधः । शरीरनामकर्मोदयात्प्राप्तानां वाग्वर्गेणानामालम्बने सति, वीर्यान्तरायमत्यक्षराधावरणानां क्षयोपशमाप्राप्ताया आभ्यन्तरवचनलब्धः सान्निध्ये सति वाक्परिणाममभिमुखस्यात्मन: प्रदेशपरिष्पन्दो वाग्योग : " ( Speech-Vibration) । स चानृतभाषणपरुषा सभ्यवचनादिभेदाच्चतुर्विधो भवति ।
३२
वीर्यान्तरायाणां नोइन्द्रियावरणानाञ्च क्षयोपशमरूपाभ्यन्तरमनोलब्धिसन्निधाने सति बाह्यनिमित्तभूतानां मनोवर्गणानामालम्बने च सति मनःपर्यायाभिमुखस्यात्मनः प्रदेशपरिस्पन्दो मनोयोग. " ( Mind Vibration)। स च वध - चिन्तन-असूया - ईर्ष्यादिभेदात्मकश्चतुर्विधः ।
एतेषां यौगपद्यविषये उमास्वातिभिरभिहितं यत् - 'मिथ्यादर्शनादीनां बन्धहेतुना पूर्वस्मिन्पूर्वस्मिन् सति नियतमुत्तरेषां भवतः । उत्तरोत्तरभावे तु पूर्वेषामनियमः" इति ।
बन्धस्य भेदाः
अजीवपुद् गलद्रव्यवर्गणास्वे कैकवर्गणा कर्मरूपेण परिणमति । जीवः स्वक्षेत्रान्तरिताना कर्मवर्गणानां ग्रहणं करोति, ततश्च काषायिकत्वात्कर्म रूपेण परिणमयति, ततश्च कर्मभावपरिणतानां पुद्गलानामात्मप्रदेशैर्यः सम्बन्धो जायते, स एव बन्ध इत्युच्यते ।
तत्र पूर्वं पुद्गलकर्म वर्गणानामात्मप्रदेशेष्वागमनं भवति, तत एव बन्धो जायते । कर्मपुद्गलानामागमनञ्च नास्रवेण ऋते भवत्यत बंधोत्पत्तेर्मूलाधार "आस्रवः । बन्धस्ततवो मेवाश्च
१७७