________________
अत्र केचनाचार्याः अविरतरत्यागभावं, प्रमादस्यानुत्साहभावञ्चैकरूपं संस्मृत्यानयोरेकत्वं स्वीकुर्वन्ति । किन्त्वेतद्विषये भट्टाकलङ्क: सुस्पष्टमभिहितम्" यत् नैतदुचितं प्रतिभाति, यतो हि अविरतेरभावेऽपि प्रमादस्तिष्ठति, विरतोऽपि प्रमादी भवत्यतो नैतयोरेकत्वं स्वीकरणीयमिति । ३. प्रमादः (Carelessness) प्रमाद व्याख्यात भि. पूज्यपादैरभिहितम्-यत् 'कुशलेष्वनादरः प्रमादः' । भट्टाकलकैश्च सयम-धर्मेष्वनुत्साहोऽनादरो वा प्रमादः'२५ इत्युक्तम् । उमास्वातिभिश्च ‘स्मृत्यनवस्थान योगदुष्प्रणिधानं कुशलेष्वनादरश्च प्रमाद:२५ इत्यभिहितम् । स चायं शुद्ध्यष्टकोत्तमक्षमादिभेदादनेकविधो" भवति । ४. कषायः (Passion) जीवस्य क्रोधादिरूपपरिणामः कषायः। अत्र कषाय-नोकषाययोरीषभेदोऽपि न भेदः, इति कृत्वा षोडशकषायाः नव नोकषायाश्च समुदिता. पन्चविशतिविधाः भवन्ति । अत्रे मे नवनोकषाया हास्य-रति-अरति-शोक-भय-जुगुप्सास्त्री-पु-नप सकवेदाः। तद्यथा-यस्योदयाद् हास्याविर्भावस्तद्हास्यम् । यस्योदयाद्विषयेष्वौत्सुक्य सा रति.। एतद्विपरीता चारतिः। यस्योदयात् शोचनं सञ्जायते, स शोकः । यस्योद्यादुद्वेग उत्पद्यते-तद्भयम् । यस्योदयादात्मदोषाना संवरण, परदोषाणाञ्चाविष्करणं जायते सा जुगुप्सा। यस्योदयात् स्त्र णभावान् प्रतिपद्यते स स्त्रीवेद. । यस्योदयात् पुवद्भावान् प्राप्नोति स पुवेद. । यस्योदयाच्च नपुसकत्वभावान्नधिगच्छति स नपुसकवेद । कषायाश्चानन्तानुबन्ध्यादिविकल्पात् पोडशविधा. । तद्यथा-मूलतश्चत्वारः कषाया.-क्रोधमानमायालाभाश्चेति । तेषा प्रत्येकमपि चतस्रोऽवस्थाः२८(१) अनन्तानुबन्धिन. (Error feeding), (२) अप्रत्याख्यानावरणाः (Partial vow preventing), (३) प्रत्याख्यानावरणा (Total Vow Preventing) (४) सज्वलनाश्चेति (Perfect-Right ConductPreventing) )। तद्यथाअनन्तस्यास्य जगत. कारणत्वान्मिथ्यादर्शनमनन्तसज्ञाकम् । ये च कषायास्तदनुबधिनस्ताः अनन्तानुबधिन. क्रोधमानमायालोभभेदाच्चतुर्धा । यदुदयाज्जीवः सयमाभिधा विरति न पूर्णतया कर्तुं शक्नोति, ते सकलप्रत्याख्यानमावृण्वन्तो प्रत्याख्यानावरणाः क्रोध मान-माया-लोभभेदाच्चतुर्विधाः । यदुदयाज्जीवः संयमासयमापरनाम्नी देशविरतिमल्पामपि कर्तुं न शक्नोति,
जनदर्शन मात्म-व्यविवेचनम्