________________
मिथ्यात्वञ्चात्र पूज्यपादः प्रामुख्येन द्विविधं “ स्वीकृतम् - नैसर्गिकम्, परोपदेशपूर्वकचेति । तत्र परोपदेशं विनैव मिथ्यादर्शनकर्मोदयाज्जीवादिपदार्थानामश्रद्धानं नैसर्गिकम् । अन्यनिमित्तादुत्पद्यमानं मिथ्यात्वं परोपदेशपूर्वकमित्युच्यते । उमास्वातिभिश्चैष एव भेदः क्रमशोऽनभिगृहीतमभिगृहीतमिति प्रतिपादितः, एतस्योल्लेखो स्थानांङ्गेऽपि प्राप्यते ।
मातान्तरेण तु मिथ्यादर्शनं पञ्चविधमपि स्वीकृतम्, तथा हि
१. श्रभिग्राहिकम् - तत्त्वमनपरीक्ष्यैव कञ्चन सिद्धान्तविशेषं स्वीकृत्यान्यसिद्धान्तखण्डनमाभिग्राहिकम् ।
२. प्रनाभिग्राहिकम् - गुणदोषान्नपरीक्ष्यैव सर्वसिद्धान्तानां सामान्येन ग्रहणमनाभिग्राहिकम् ।
३. संशयितम् - देव-गुरु- धर्मस्वरूपेषु संदेहबुद्धिः संशयितम् ।
४. ग्राभिनिवेशिकम् – स्वीयं सिद्धान्तमसत्यमिति ज्ञात्वापि तद्ग्रहणमाभिः निवेशिकम् ।
५. प्रनाभोगिकम् - मोहस्य प्राबल्ये यन्मौढ्यं तदनाभोगिकम् । पूज्यपादाचार्येरन्ये पञ्चभेदाः " परिगणितास्तथाहि
१. एकान्तम् -' इदमेव' ' इत्थमेवे 'ति
धर्मधर्मिणोरेकान्तरूपोऽभिनिवेश:
एकान्तम् (One Sided Belief)
२. विपर्ययः सग्रन्थे निर्ग्रन्थभावः, केवलिनः कवलाहारः, स्त्रीणा सिद्धत्वस्वीकारश्च विपर्यय: ( Perverse Belief)
३. संशयः- सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गभूतानि सन्ति न वेत्यात्मकः सशय. (Doubtfull Belief)
४. वैनयिकम् - सर्व देवशास्त्राणां समदर्शनं वैनयिकम् (Veneration of falls Creeds)
५. प्रज्ञानिकम् – हिताहितपरीक्षाविरहत्वमज्ञानिकमिति (Indiscriminate Belief)
२. अविरति (Vowlessness)
हिसा - अनृत - अस्तेय - अब्रह्म-परिग्रहेभ्यः पञ्चपापेभ्यो विरमणं विरतिः, एतत्प्रतिपक्षभूता विरति । अर्थात् पापेभ्यः, उपभोग्यपदार्थेभ्यः, सावद्यकमेभ्यश्चाविरमणमविरतिरिति । पूज्यपादाचार्ये. षड्जीवनिकायापेक्षया, षडिन्द्रियापेक्षया च द्वादशविधाऽविरतिरभिहिता" ।
बन्धस्ततवो मेवाश्च
१७५