________________
स्तिष्ठन्ति यैर्न कोऽपि जगतः सर्जकः इति सिध्यति । नाप्यसंख्यजातीनां जगद्वैचित्र्यस्यास्य केनाप्येकेन निर्माण सम्भवं स्यात् । वस्तुतस्तु प्रत्येकमेव जीवः स्वीयस्य जगतः स्वयमेव स्रष्टा । स्वयमेव स्वीयस्य शरीरादिरूपस्यास्य जगतः स्रष्टा कथं सः सिध्यतीति कर्मसिद्धान्ताना विवेचनेन मननेनाध्ययनेन च सुस्पष्टतया ज्ञायते। किमिदं नाम कर्म ? राग-द्वेषादियुक्तेऽस्मिन् संसारिजीवे प्रतिसमय परिस्पन्दरूपात्मिका क्रिया भवन्ती तिष्ठति, तन्निमित्तेनात्मनि एकमचेतनं द्रव्यं यदा बीजरूपमागच्छति, तदेव रागद्वेषादिपरिणामनिमित्तादात्मनि वन्धत्वमधिगच्छति । यच्च काले प्राप्ते सति मुखदुःखरूपपरिणामफलं दातु क्षम जायते, तदेव कर्मेति कथ्यते । यथा खल्वाकरे स्वर्ण-पाषाणयोरनादिकालिकस्सम्बन्ध. प्रचलन्नद्यापि विद्यते, तर्थव जीवकर्मणामप्यनादिकालिकः सम्बन्धो विद्यते। जीवोऽनादिकालतस्तु सर्वथा शुद्ध चैतन्यस्वरूप एवासीत्पश्चात्कस्मिश्चित्काले तस्य कर्मभिस्सम्बन्धः सजात , नैतादृशी व्यवस्था विद्यते, यतश्च जीवकर्मणामनादिस्सम्बन्धस्सर्वैरेव स्वीक्रियते । यतो ह्यस्य कर्मग्रहणस्वभाव., स्त्रभावश्च कारणं विनैव सहजतया जायते । प्रकृति., शीलमप्यस्यैव नामान्तराणि । यथा खल्वग्नेरूर्ध्वगमन, वायोस्तिर्यग्गमन, जलस्य चाधोगमन स्वभावस्तथैवात्मनो स्वभावः रागादिरूपपरिणाम , रागादीनाञ्च स्वभावो रागादिरूपपरिणामयकः।
कर्मणां रागाद्युत्पादकत्वम् यथा खलु भङ्ग-मदिरादिमादकपदार्थानां मादकस्वभावस्तदुपयोगकानाञ्च तन्मदेन मत्तस्वरूपो परिणामः, तथैव जीवस्वभावो रागद्वेषादिकषायरूपपरिणमनम्, तथा च कर्मणां रागादिकषायस्वरूपेण जीवस्य परिणामकः, यावच्चानयोईयोस्सम्बन्धस्तावदेव विकाररूपो जीवस्य परिणाम । अयञ्चानादिकालत एव स्वतस्सम्बन्धयुक्तोऽस्ति । अत्र जीवस्यास्तित्वमहमित्यात्मिक्या प्रतीत्या, कर्मणाञ्चास्तित्वं जीवानां भिक्ष क-श्रीमतादिरूपवैचित्र्यपरिणामेन प्रत्यक्षत एव५५ दृश्यते । प्रनादिः कर्मपरम्परा अद्याप्ययमात्मा स्थूल-सूक्ष्म-कर्मशरीराभ्यां बद्धो विद्यते । अस्य ज्ञान, सवेदन, सुखदुःखानि, जीवनशक्तिश्चापि, सर्वेऽपि शरीराधीनाः । शरीरे च विकारे १६०
जैनदर्शन आत्म-द्रव्यविवेचन