________________
द्विविग्रहा, (४) त्रिविग्रहा चेति । तत्र षुगतिरिव ऋजुगतिरेकसमयात्मिका, लोकाग्रभाग यावज्जीवस्य पुमलानाञ्च गतिरेकसमयात्मिकैव भवति । यस्याञ्च गतावेको विग्रहः, सा द्विसमयात्मिका, द्विविग्रहवती च त्रिसमयात्मिका, त्रिविग्रहवती च गतिश्चत्वारि समयात्मिका ११ भवतीति ।
1
विग्रहगतावनाहारकत्वम् ( Non Assimiliativeness)
भवादभवान्तरमधिगच्छन् एक-द्वि- त्रिसमयं यावज्जी वोऽनाहारकस्तिष्ठति । arterfina क्रयिकाहारकशरीरयोग्यानां षड्पर्याप्तियोग्यानाञ्च पुद्गलानां ग्रहणमाहारः, तैजसकार्मणशरीरपुद्गलास्तु मोक्षात्प्राप्रतिक्षणमागच्छन्तस्तिष्ठन्ति । अतो कार्मणशरीरकारणात् गच्छन्नपि पूर्वदेहपरित्यागदुःखसंतप्तो जीवोऽष्टविधकर्मपुद्गलेभ्यो निर्मितेन कार्मणशरीरेण नोकर्मपुद्गलग्रहणादाहारको ५१ भवतीति ।
समयात्मिक्यां गतौ नोकर्मपुद्गलान् ग्रहणन्नेव गच्छत्यतः नानाहारको भवति, द्विविग्रहवत्यां त्रिकालिकायाञ्च गतौ द्विसमयमनाहारकस्त्रिविग्रहवत्यां चतुःसमयात्मिक्याञ्च गतौ त्रिसमयमनाहारकस्तिष्ठति । चतुर्थे समये आहारक एव भवतीति ।
एवं भवक्षये सति मरणमुपगतो जीवोऽन्यद्भवप्राप्त्यै अविग्रहया विग्रहया वा गत्याकाशप्रदेश पङ्क्त्यनुसारं गच्छन्, स्वकर्मानुसारं स्वोपपातक्षेत्र यत्रानेन जन्म ग्राह्य ं तत्क्षेत्र गत्वा शरीरयोग्यान् पुद्गलान् ग्रह्णाति । पुनश्च तत्रोपग्रहीतेन शरीरेण नानाविधानि कर्माणि कुर्वन् सकषायत्वात्कर्मणो योग्यान् पुद्गलानादत्ते, तदा च बन्धभाग्भवति । तथा च तेन बन्धेन समुपजातरागद्वेष-मोह. पुनः काय-वाङ् - मनोयोगैर्नानाविधेषु शुभाशुभेषु द्रव्येषु संजातरागद्वेषत्वात् संसारी जायते । तत्र चोपार्जितायुष्कर्मणः पुनः क्षये सति मरणमधिगच्छति । ततश्च पुनर्जन्म पुनर्भरणमित्यादिजन्ममरणात्मके संसरणे परिभ्रमन्, भवाभवान्तरमधिगच्छन् संसारोदधौ निमज्जन् तिष्ठतीति ।
प्रात्मकर्मणोः सम्बन्धः
किमिद नाम कर्म ? का चावश्यकतास्य ययेदं स्वीकृतं दार्शनिकै ? विषयेऽस्मिन् समग्राणामपि दर्शनाना पर्यालोचनेन ज्ञायते यत्पूर्ववर्तिभिर्महर्षिभिवलमेतदर्थमेव कर्म स्वीकृतम्, यत् तर्कनिकषायां परीक्षितेऽपि न जगतः स्रष्ट्रा ईश्वरादिरूपो कश्चनापि तिष्ठति, एतद्विषयेऽनेके प्रश्ना उपस्थिताareकर्मणोः सम्बन्धः
१५६