________________
यदात्मनो संसरणं, न तच्चेष्टरूपाद्योगादृते शक्यत्रतएव व्यक्त-ग्राह, यशरीरयोग-प्रणवर्तिनी या जोवस्य गतिः, सर्व विग्रहगतिरित्यभिधीयते ।
गतेव विध्यम्
विविधापीयं गतिः प्रामुख्येन द्विविधा ऋज्वी, वक्रा चेति । तत्र धनुषाक्षिप्तेबुरिव यस्य जीवस्य गतिः, सा ऋज्वी गतिः । एतद्विपरीता वक्रा तु त्रिविधापाणिमुक्ता, लाङ्गलिका, गोमूत्रिका "" चेति ।
अत्र यथा पाणिना तिर्यक्प्रक्षिप्तस्य द्रव्यस्य गतिरेकविग्रहा, तथा संसारिणाविग्रहा पाणिमुक्ता गतिर्द्वसामयिकी भवति । यथा च लाङ्गलं द्विवक्रितं, तद्वत् त्रिविग्रहा लाङ्गलिका गतिर्गोमूत्रिको च चतुस्सामयिकी भवतीति ।
1
तदेताः सर्वा अपि विग्रहगतय आकाशप्रदेश श्रेण्यनुसारमेव भवन्ति । लोकस्य मध्ये तिर्यगुपर्ययश्चाकाशप्रदेशाः क्रमशश्श्रेणिबद्धा स्तिष्ठन्ति, एतदनुकूलमेव सर्वेri जीवपुद्गलाना गतिर्भवति ।
गतेरनुश्रेणित्वम् (Sheet Wise Spread)
अनुश्रेण्याः गतेर्देशो कालश्च नियतो भवति । जीवाना मरणानन्तरं नूत्नपर्यायधारणकाले, तथा च मुक्त जीवानामूर्ध्वगमनकाले गतेरनुश्रेणित्वमुपजायते । लोकादधः, अधोलोकाच्चोपरि तिर्यग्लोकाच्चोपर्यधश्च या गतिर्भवति सा अनुश्रेणि रेव" भवति । पुद्गलानाञ्चापि या लोकान्तं यावद्गतिः, सापि नियमतोऽनुश्रेणिरेव भवति । परं मुक्तजीवस्य तु गतिरविग्रहैव जायते ।
"
१४९
संसारिणो जीवाः यदा स्वीयं शरीरं परित्यज्यान्यत्शरीरमधिगन्तुं भवान्तरार्थ गमनं कुर्वन्ति, तदा तेषां यादृश जन्मक्षेत्र तादृशी एव विग्रहात्मिकाऽविग्रहात्मिका वा गतिर्भवति । यदि विग्रहवतिगतियोग्यं क्षेत्र, तद्गतिरपि विग्रहा, यद्यविग्रहगतिरूपं क्षेत्र तदविग्रहागतिर्भवतीति ।
गतौ समय निर्धारणम्
किञ्चेयं गतिस्तिर्यगूर्ध्वमधः यत्र कुत्रापि भवतु, तत्र न चत्वारि समयादधिको काल उपयुज्यते । यतो हि जगति न कश्चनैतादृशो देशो विद्यते यत्प्रापणार्थ त्रयोधिका विग्रहा. सन्तु । अतो गतिरपि चतुःसमयात्प्रागेवोपपद्यते । अत्र कालापेक्षया गतेश्चातुविध्यमुपजायते-- (१) अविग्रहा, (२) एकविग्रहा, (३)
जैनदर्शन आत्म-द्रव्यविवेचन
१५८