________________
अतस्ताभ्यां सहेवीदारिक तृतीयं शरीरम्, अथवा वैक्रियिकं ततीयं शरीरं भवितुं शक्नोति । यदि कस्यचिज्जीवस्य चत्वारि शरीराणि भवन्ति, तत्तानि शरीराणि तेजसकार्मणाभ्यां सह औदारिकवैक्रियिकात्मकानि, औदारिकाहारकात्मकानि वा भवितुमर्हन्ति । यतो हि-तत्राहारकर्व क्रियिकयोरुत्पत्तेः परस्पर विरुद्धत्वान्न तयोयौंगपद्यं युज्यते। अस्मात्कारणादेव पञ्चविधानि अपि शरीराणि नैकस्मिन्" जीवे सम्पद्यन्ते । यदि केवलं द्वे एव शरीरे कस्यचिज्जीवस्य भवतस्तदा ते तु तैजसकार्मणे एवावगन्तव्ये । कार्मण उपभोगरहितत्वम् अत्र पञ्चविधेषु शरीरेषु कार्मणं शरीरमन्त्यम्, तच्चोपभोगरहित भवति, यतो हि नानेन सुखदुःखयोरुपभोगः, कर्मणा बन्धो वा, कर्मफलानुभवनं, निर्जरणं वा विधास्यते । अतएवेदं निरुपभोगमित्युच्यते"। एतदतिरिक्तान्यन्यानि चत्वारि शरीराणि सोपभोगानि सन्ति, यतश्च तैः सुखदुःखादीनामुपभोगो, कर्मणां बन्धस्तत्फलानुभवनं, निर्जरणञ्चापि भवत्यत औदारिकादीनि चत्वार्येव सोपभोगानीत्य च्यन्ते । अत्रोपभोगस्तु इन्द्रियनिमित्तशब्दाद्युपलब्धि', अतो जीवस्य विग्रहगतो सत्यामपि इन्द्रियोपलब्धौ द्रव्येन्द्रियनिर्वृत्यर्थाभावात् शब्दादिविषयानुभवनाभावाच्च निरुपभोगं कार्मणमिति । fargenta: (Transmigration) कार्मणमिदं शरीरं विग्रहगतो केवलमेव तिष्ठति । अत एतन्निमित्तक एव योग.-प्रदेशपरिस्पन्दस्तत्र जीवस्य भवति । अत्रौदारिकादिनामकर्मोदयात्तत्तच्छरीरयोग्यपुद्गलानां ग्रहणं विग्रहः । विरुद्धो ग्रहो यत्रार्थाद्यत्र कर्मपुद्गलाना ग्रहणे सत्यपि नोकर्मपुद्गलाना ग्रहणाभावः, स विग्रह इति । तदर्थ च या गतिरात्मना क्रियते सा विग्रहगतिरित्युच्यते"५ । क्षेत्रात्क्षेत्रान्तर प्राप्तिर्गतिः । ये च जीवाः विग्रहगतिकास्तेषा कर्मकृत एव योगः प्राप्यते । कार्मणशरीरेण यत्प्रदेशपरिस्पन्दन तदेव कर्मयोगः" इत्युच्यते । एतदतिरिक्तासु सर्वाष्वप्यवस्थासु कायवाङ्मनस्त्रिविधोऽपि योगो भवतीति । अत्रेय गतिश्शरीरधारणार्थमेव भवति, सा चैकदेशाद्देशान्तरप्राप्तिरूपा, जन्माज्जन्मान्तरप्राप्तिरूपा वा भवति । तत्रक शरीरं परित्यज्यान्यच्छरीरप्राप्तिरन्यत्र गत्वा जीवो विदधाति, सा देशान्तरप्राप्तिरित्युच्यते । एतदर्थ .आत्मनो भवान्तरसक्रमणम्
१५७