________________
शरीराणामसंख्येयगुणत्वम् अत्रोक्तशरीरेपूत्तरोत्तरं सौक्षम्यं यथा विद्यते, तथवोत्तरोत्तरमेतेषा प्रदेशेष्वसंख्येयगुणत्वमपि भवति । इदञ्चासंख्येयगुणत्वं तेजसात्प्रागेव भवति । तद्यथा- औदारिकशरीरस्य यावन्तो प्रदेशास्तावन्तः प्रदेशाः वैक्रियिकस्य न भवन्त्यपितु औदारिकापेक्षया वैक्रियिकशरीरप्रदेशा असंख्यातंगुणाः वैक्रियिक शरीरापेक्षया चाहारकशरीरप्रदेशा असंख्यातगुणा भवन्ति । अत्र प्रदेशपदेन परमाणूनामेव ग्रहणं भवति ।। अत्र च यदिदमसख्येयगुणत्वम्, न तच्छरीरोत्कृष्टप्रमाणापेक्षयापितु शरीरविगाहनशक्त्यपेक्षयास्ति । यथा खलु समयपरिमाणाना तूल-काष्ठ-पाषाणअयोगोलादीनामुत्तरोत्तरमाधिक्य भवति, तथैवात्रापि । परमत्र तेषां शरीराणां प्रदेशा उत्तरोत्तरं सूक्ष्मतरा अपि सन्त उत्तरोत्तर प्रदेशापेक्षयाधिकतराः भवन्तीति वैशिष्ट्यम् । शेषयोरनन्तगुणत्वम् औदारिक-वैक्रियिक--आहारकादतिरिक्तयोईयोस्तैजस - कार्मणोरनन्तगुणत्वं विद्यते, अर्थादाहारकप्रदेशापेक्षया तैजसप्रदेशा अनन्तगुणात्मका., तैजसप्रदेशापेक्षया च कार्माणप्रदेशा अनन्तगुणाः सन्ति । तथापि द्वे अप्युत्तरोत्तरे सूक्ष्मसूक्ष्मतरे' स्त.। अनयोयोश्शरीरयोरस्त्येकमन्यद्वैशिष्ट्यम्, तथाहि-इमे द्वः अपि अप्रतिघातात्मके" भवतः, अर्थादनयोगति वज्रपटलेनापि न प्रतिहता भवति । किन्त्वनयोरिय गतिर्लोकान्ते तु सहकारिकारणाभावाद् (धर्माधर्माभावात्) प्रतिकृता भवत्येव । तेजस-कार्मरणोरनादिसम्बन्धत्वम् अथ चानयो योस्तैजसकार्मणोर्यावदयं संसारस्तावज्जीवेन सह सम्बन्धस्तिष्ठति, ससारिणश्च जीवा अनादिकालादेव संसारिण, अतएवानयोर्जीवेनानादि सम्बन्धो विद्यते । एते च द्व एव शरीरे प्रत्येकमपि संसारिणो भवन्ति । एतेषु पञ्चविषेषु शरीरेषु तैजस-कार्मणाभ्या सहान्यान्यपि शरीराण्येकस्यैव जीवस्य भवितु शक्नुवन्ति । तद्यथा-तैजसकामरणे तु सर्वेषा भवत एव, १५६
जैनदर्शन आत्म-द्रव्यविवेचनम्