________________
निस्सारयति, यच्चोष्णगुणयुक्तत्वादन्यस्य दाहकरणक्षम भवति, तदनुभवधितैजसम, शापदानाघशुभक्रियासमर्थमपि भवति। प्रसादे तु तदेव तेजसं शीतगुणयुक्तं निःसृत्यापरेषामनुग्रहकरणक्षमं शुभलब्धितेजसमित्युच्यते । अलब्धितेजसं तु पाचनशक्तियुक्तत्वादुपभुक्तस्याहारस्य पाचकं भवतीति । किञ्चाष्टविधकर्मणां समूहरूपं यच्छरीरं, तत्कार्मणमित्युच्यते । कर्मभिनिष्पन्नं, कर्मसु भवं, कर्माण्येव वेति कार्मणम् । अत्रान्येषां शरीराणां, तत्तन्नामकर्मोदयापेक्षत्वात्तच्छरीरनिष्पत्तिर्भवत्यतो नात्र सर्वेषां तेषां कार्मणत्वप्रङ्गः समायाति ।
शरीरस्वामिनः एतेषु पञ्चविधेषु शरीरेषु गर्भसम्मूर्च्छनजन्मभिः प्राप्तमौदारिक"" शरीरम्, औपपादिकजन्मभिर्देवनारकैरधिगतं वैक्रियिक"" शरीरम्, अर्थादौदारिकशरीरस्य गर्भसम्मूर्च्छनजाः, वैक्रियिकस्य च देवनारकाः स्वामिनो भवन्ति । वैक्रियिकस्य लब्धिप्रत्ययत्वात् औदारिकशरीरिषु मनुष्यतिर्यक्ष " तपसादिनिमित्तात् सम्प्राप्तशक्तिविशेषादिदं युज्यते । तैजसमपि लब्धिप्रत्ययं भवति । अथ शुभं, विशुद्धमव्याघातिशरीरमाहारकं प्रमत्तसंयतस्यैव, नान्यस्या कस्यचित्सञ्जायते ।
शरीराणां सौक्ष्म्यम् पञ्चविधेष्वेषु शरीरेषु पूर्वपूर्वशरीरापेक्षयोत्तरशरीराणां सूक्ष्मता" विद्यते । तद्यथा-औदारिकशरीरापेक्षया वैक्रियिकं सूक्ष्म, तदपेक्षया चाहारकम्, आहारकादपि तैजसम्, तैजसादपि च कार्मणशरीरं सूक्ष्म भवति । अत्र सूक्ष्मपदेन पारस्परिकापेक्षया सूक्ष्मता ग्राह्या भवति । तद्यथा--मनुष्याणां तिरश्चाञ्च शरीरं स्वभावत एव दृष्टिपथमायाति, अतएवौदारिकं शरीरं सर्वतः स्थूलम्, किन्तु वैक्रियिकं शरीरं विक्रियया एव दृष्ट शक्यते, न तु स्वभावेनात इदमौदारिकापेक्षया सूक्ष्माहारकापेक्षया तु स्थूलं भवति, आहारकस्य ततोऽपि सूक्ष्मत्वादियं सूक्ष्मतापेक्षिकीत्युच्यते । एवमेव तेजसापेक्षयाहारकं स्यूलं किन्तु तैजसमपि कार्मणापेक्षया स्थूलमतः कार्मणशरीरमेव केवलं सर्वतः सूक्ष्म (सूक्ष्मतमं) विद्यते । अर्थात्कार्मणशरीरे सर्वतोऽधिका सूक्ष्मता, यतो हि, याभिः पुगलवर्गणाभिः शरीराणि विरच्यन्ते, तासा प्रचयः उतरोत्तरमधिकाधिकसूक्ष्मो सघनश्च भवति । मात्मनो भवान्तरसंक्रमानम्