________________
बोनीनामुत्तरमेवाः एतासां नवविधानां योनीनामुत्तरभेदाश्चतुरशीतिलक्षमिताः, ते च प्रामुख्येन यथा--नित्यनिगोतानां (त्रिष्वपि कालेषु ये न त्रसभावमधिगन्तु योग्यास्ते नित्यनिगोताः) जीवानां सप्तलक्षसंख्याकानि, पृथिव्यप्तेजोवायुकायिकादीनां प्रत्येकं सप्तलक्षाणि वनस्पतिकायानामपि दशलक्षाणि, विकलेन्द्रियाणां द्वित्रिचतुरिन्द्रियाणां षड्लक्षाणि (प्रत्येक द्विलक्षमितानि), देवनारकपञ्चेन्द्रियतिरश्चां द्वादशलक्षाणि (प्रत्येकस्य चत्वारि लक्षाणि), मनुष्याणाञ्च चतुर्दशलक्षमितानि योनिभूतान्युत्पत्तिस्थानानि भवन्ति । एतानि सर्वाणि समुदितानि चतुरशीतिलक्षसख्याकानि भवन्तीति । शरीराणि (Bodies) एषां त्रिविधजन्मनां ससारिणामनेकविधयोनीनां शुभाशुभनामकर्मनिवर्तनानि बन्धफलानुभवनाधिष्ठानानि शरीराणि तु पञ्चविधानि भवन्ति । तद्यथा-- १-औदारिकम्, २---वैक्रियिकम्, ३-आहारकम्, ४-तैजसम्, ५-कार्मणञ्चेति । शीर्यन्ते यथायोग्यं समयं सम्प्राप्यात्मना सम्बन्ध विच्छेद्य पौगलिकवर्गणारूपेणेतस्तत. प्रकीर्णा भवन्तीति शरीराणि । औदारिकादिषु पञ्चष्वप्ययं स्वभावो दृश्यतेऽतएवेमानि शरीराणीत्युच्यन्ते । शरीररचना अथ चैषा शरीराणा संरचनाऽन्त पुद्गलविपाकिशरीरमनाकर्मोदयापेक्षया भवति । तत्रौदारिकशरीरनामकर्मोदये सति, उदार-स्थूल-आसार-पुदगलद्रव्यर्यज्जायते तदौदारिकम् । विक्रिया च प्रयोजनं यस्य, तक्रियिकम्, वैक्रियिकनामकर्मोदये सति विक्रिया-विविधकरणता-अणिमादिकाष्र्टाद्धयुक्तं गुणयुक्त वा यत् पुद्गलद्रव्यवर्गणोद्भूतं तद्वै क्रियिकम् । सूक्ष्मपदार्थनिर्जानार्थमसंयमपरिजिहीर्षया च प्रमत्तसयतेनाहियते, निर्वय॑ते, यत्तदाहारकम् । आहारकशरीरनामकर्मोदये सति विशिष्ट-प्रयोजनसिद्धौ समर्थम्, शुभतरविशुद्धपुगलद्रव्यवर्गणोद्भुतमन्तर्मुहर्तस्थितिमात्र च यत्नदाहारकम् । तेजोनिमित्त तेजसिभवं वा तैजसम्, तैजसशरीरनामकर्मोदये सति तेजोगुणयुक्तपुद्गलद्रव्यवर्गणोत्पन्न तेजस लब्ध्यलब्धिभेदेन द्विविधम्"। तत्र लब्धिरूपतैजसमपि शुभाशभभेदेन द्विविध भवति । तत्र गोशालकवद्यस्य तेजसलब्धि स क्रोधादिवशीभूत. सन् स्वशरीराबहिस्तैजसमेकमाकृतिक १५४
जनदर्शन आत्मनाव्यविवेचन