________________
शेषाणां जरायुज- अण्डज - पोत- देव-नारकातिरिक्तानां सर्वेषां सम्मूर्च्छनं जन्म भवति । अर्थात् शेषाणामेव सम्मूच्छेनं जन्म भवति, न तु जरायुजाण्डजपोतदेवनारकाणामिति २४ ।
जन्माश्रयाः (Birth Place Or Nuclei )
इत्थमष्टविधकर्मरूपेणास्मिन् संसारे बद्धानां जीवानां जन्मोपरिलिखितेन त्रैविध्येन भवति । तच्च यत्र कुत्रचिदपि जीवेन धार्यते, सर्वत्रापि तदाधारभूता योनयः सन्ति । योनिस्तु पूर्वशरीरस्य विनाशे सत्युत्तरशरीरयोग्यं पुद्गलद्रव्यं यत्र गत्वा संग्राह्य कार्मणशरीरेण संसारिजीवो युज्यते, तत्स्थानम् । ताश्चेमा नवविधाः १५ भवन्ति, तथाहि
(१) सचित्तयोनयः, (Living Matter)
(२) अचितयोनयः, (Non-Living - Matter)
(३) सचित्ताचित्तयोनय:, (Combination of Birth) (४) शीतयोनयः, (Cold)
(५) उष्णयोनयः, ( Hot)
(६) शीतोष्णयोनयः, (Combination of Both) (७) संवृतयोनयः, ( Covered)
(८) विवृतयोनय., ( Exposed)
(E) संवृतविवृतयोनयश्चेति । (Combination of Both)
अत्राचित्तयोनिका देवनारकाः भवन्ति, यतो हि तेषामुपपादप्रदेशपुद्गलप्रचयोऽचित्तो भवति । सचित्ताचित्तयोनयश्च जीवा गर्भजास्तेषां तदात्मना चित्तवता मातुरुदरे शुक्रशोणितमचित्तं मिश्रम् । सम्मूर्च्छनजेषु केचन जीवाः सचित्तयोनयोऽन्येऽचित्तयोनयोऽपरे सचित्ताचित्तयोनयस्त्रिविकल्पाः भवन्ति । देवनारकाणां केषाञ्चनोपपादस्थानानां शीतात्मकत्वादुष्णात्मकत्वाच्च शीतयोनित्वमुष्णयोनित्वञ्चाप्यस्ति । अग्निकायिकै केन्द्रियजीवास्तु केवलमुष्णयोनय एव भवन्ति । अन्येषु केचन शीतयोनयः केचनोष्णयोनयः, केचन शीतोष्णयोनयो भवन्ति, संवृतयोनयस्तु देवा, नारका, एकेन्द्रियाश्च जीवा । विकलेन्द्रियस्तु विवृतयोनयः, गर्भजाश्च संवृतविवृतयोनयी
१२६
ऽवगन्तव्या. 1
आत्मनो भवान्तरसंक्रमगम्
१५३