________________
तदेव गर्भ जन्मेत्युच्यते । यथा खलु पशु-पक्षि-मनुष्याणामिदं भवति, अथवा मात्रोपभुक्तस्याहारस्यात्मसात्करणादुपभोगाद् गर्भ इत्युच्यते ।
उपपादः (Instaneous )
उपेत्यपद्यतेऽस्मिन्नित्युपपादः । देवनारकाणां शरीररूपपरिणमनमेवोपपाद इत्युच्यते, अर्थात् देवनारकाणामेव नियतस्थानपुद्गलेभ्य उपपादो" भवति ।
गर्भजाः जीवाः (Uterine-Birth)
•
तत्र जरायुजानामण्डजपोतानाञ्च गर्भजन्म" एव भवति । नान्येषामेतद्व यतिरिक्तानाम् । अर्थात् गर्भजन्म जरायुजाण्डजपोतानामेव भवतीति । अत्र जावरतो विततं सशोणितं जीवस्य यदावरणं तज्जरायुरिति, "" तत्र जाताः जरायुजाः (Umbilical) मनुष्य - गो-महिष- अजा- अविका - अश्व-खर-उष्ट्रमृग- चमर- वराह- गवय- सिह व्याघ्र - ऋक्ष द्वीपि-श्व-शृगाल- मार्जारादयः १२०
1
अण्डजाश्च सर्प - गोधा - कृकलाश-गृहकोकिलिका-मत्स्यकर्म - नक्र - शिशुमारादयः, लोमपक्षाः पक्षिणः - हस - चाष- शुक - गृद्ध - श्येन - पारावत- काक- मयूर मद्गु-बकबलाकादयश्च । अत्र खलु शुक्रशोणितपरिवरणमण्डल नखत्वक्सदृशमुपात्तकाठिन्य यत्तदण्डम्, तत्र जाता अण्डजाः ( Incubatory ) इति ।
१२९
किञ्चित्परिवरणमन्तरेण परिपूर्णावयवो योनि निर्गतमात्र एव परिस्पन्दादिसामर्थ्यपेत पोत इत्युच्यते । पोताश्च ( Unumbilical) शल्लक - हस्ती -श्वाविल्लापक- शश- सारिका - नकुल- मूषकादय, चर्मपक्षाः पक्षिण जलूका वल्गुलिभारण्डपक्षी-विडालादयश्चेति । एतेषा जरायुजाण्डजपोताना त्रिविधाना गर्भजन्म एव भवतीति ।
एषु त्रिविधेष्वपि जरायुजा अर्ध्याहता:, तेषु भाषाध्ययनादीनां क्रियाणां सत्त्वात् । एषु समुत्पन्नाः केचित्तु चक्रधर-वासुदेवादिमहाप्रभावा अपि भवन्ति तथा च सम्यग्दर्शनाद्यभ्युदयेन मोक्षसुखेनापि युज्यन्ते ।
उपपादजन्म तावत्केवलं देवनारकाणामेव भवति । अत्र तयोर्देव- नारक -गतिनामकर्मोदयाद्देवनारका दिव्यपदेशत्वात्तयोरिद जन्मेति न स्वीकरणीयम्, यतो हि तत्तद्गत्युदयस्तु विग्रहगतावेवास्ति परं न तत्र तत्तच्छरीरं विद्यते, तत्तच्छरीरनिर्वर्तकपुद्गलाभावात् । अतोऽत्र देवनारकादिशरीरनिर्वृत्तौ देवादिजन्मैवेष्टम्” ।
१५२
जनदर्शन आत्म- द्रव्यविवेचनम्