________________
'
सांसारिकत्वादेवात्मा पारतन्त्र्यमधिगच्छति, यतो हि संसारस्थितो जीवौ न कदापि पापविमुक्तं स्वातन्त्र्य कथमप्यनुभवितुं शक्नोतीति ।
श्रात्मनो भवान्तरसंक्रमणस्
भवान्तरप्राप्तिः (Transmigrate )
जीवस्वभाव: परिणामात्मकस्तत्परिणामेन च स यादृशानि कर्माणि गृह्णाति, आत्मसाद्वा करोति तानि सर्वाण्यपि कर्माणि यथासमयमुदयं सम्प्राप्य स्वशक्त्यनुसारं फलं दातुं शक्नुवन्ति । तस्य फलस्य च जीवेनावश्यमेव भोक्तव्यत्वात्तत्कर्मनिमित्तकं जन्ममरणं संसारिणां जीवस्योपपद्यते ।
अत्र सञ्चितस्यायुष्कर्मणः समाप्तिर्मरणम्, नृत्नस्यायुष्कर्मणश्चावाप्तिर्जन्मेत्युच्यते । मरणानन्तरमन्यज्जन्मग्रहण भवान्तरप्राप्तिस्तदर्थमात्मनो यत्संक्रमण जायते, तदेव भवान्तरसक्रमणमिति ।
भवान्तरग्रहणार्थ च कदा, कुत्र, केन मार्गेण, केन विधिना वा जीवेन गमनं क्रियते ? इत्यादिकं सर्व तत्कर्मनिमित्तादेव भवति, तथा च कर्मानुसारमेव यथायोग्यं जन्मक्षेत्रमधिगतो जीव औदारिकं वैक्रियिक वा शरीररचनायोग्यं पुद्गलद्रव्यं ग्रह्णाति । कर्मनिमित्तादेव तच्छरीरं भवति, यतोहि शरीररचनायोग्यपुद्गलाना ग्रहणमेव जन्मेति । तदेतज्जन्म सम्मूर्च्छनम्, गर्भः, उपपादश्चेति त्रिविधं "" भवति ।
सम्मूर्च्छनम् (Spontaneous)
त्रिष्वपि लोके पूर्व मधस्तिर्यक् समन्ततो देहस्य मूर्च्छनम् अवयवप्रकल्पनम्, सम्मूच्र्छनमिति, अर्थात् यत्र जीव उत्पद्यमानस्तत्स्थानीयपुद्गलद्रव्यस्य तज्जीवशरीररूपपरिणमन सम्मूर्च्छनम्"" । तद्यथा - काष्ठादिषु घुणोत्पाद:, फलादिषु क्रम्यादीनामुत्पादः, शैत्योष्ण्यनिमित्ताच्छरीरे वस्त्रादिषु वा यूकादीनामुत्पाद:, जलादीनां निमिताद बीजादिष्वङ्कुरोत्पत्तिः, पृथिव्याञ्च तृणादीनामुत्पाद: सम्मूर्च्छनमुच्यते । यतो हि तत्स्थाने जीवस्यागमनादेव तत्स्थानीयाः पुद्गलाः शरीररूपेण परिणता भवन्ति । एतदेव सम्मूर्च्छनम् । एकेन्द्रियाच्चतुरिन्द्रियपर्यन्ताना सर्वेषामपि जीवानामेतदेव जन्म भवतीति ।
गर्भः (Uterine )
स्त्रिय उदरमुपगतयो शुक्रशोणितयोर्यत्र गरणं - मिश्रणं भवति, स गर्भ इत्युच्यते । अर्थात् स्त्री-पुरुषयोः संयोगे सति तयोः रजो वीर्य संयोगाद्यच्छरीरमुत्पद्यते, आत्मनो भवान्तरसंक्रमणम्
१५१