________________
मानव (Pride) आगम. श्रुतम्, सर्वज्ञप्रणीतागमानुचरणं च शीलम् । परं मर्योदयात् तयुक्तं शास्त्रज्ञं दृष्ट्वा जनरुच्यते यदयं 'श्रुतवानप्येवं गर्वितः' 'तेनैव मत्तः-मानी जातः शास्त्रषु श्रयते यत् 'श्रुतेन तु मानत्यागः कार्यः' यतो हि, श्रुतज्ञानेन मदो निर्मथ्यते, न चानेनासी मदो निर्मथितोऽतः ज्ञानज्ञानिनोरभेदत्वात् श्रुतमेव दूषितं भवति । एवमेव धर्मार्थकामानामप्ययं मानः विघ्नकारी भवति । तथाहि-कश्चन विनयरहितः शीलवानपि दुःशील एव, विनयरहितत्वे तु धर्मेऽपि विघ्नकारित्वं मानस्य, धर्मस्य विनयमूलकत्वात् । अर्थस्य चोपादानकारणं धर्मोऽतः धर्मविघ्नकारित्वादर्थेऽपि विघ्नकारित्वमस्योपपद्यते । यतो हि राजादिना विनयत एव पुरस्कारादयः संयोज्यन्ते । कामस्यापि च सम्प्राप्तिरर्थ-विनयसम्पन्नस्यैव दरीदृश्यते, यतो हि-कुलयोषिता वेश्यानाञ्च चित्तानुरोधलक्षणया चेष्टया कामी सुखभाग्भवति, अर्थविनयाभावे तु मान तत्रापि विघ्नकारकं भवेदतएव मानस्य धर्मार्थकामेषु विघ्नकारित्वं, श्रुतशीलदूषणत्वञ्चास्ति"। माया (Deciet) यथा खलूद्धृतदंष्ट्रोऽपि सर्पः लोक. दूरादेव परिहियते, तथैव मायाशीलोऽपि यदि सम्प्रति मायाचरणात्मकात् पूर्वस्वभावाद् विरतस्तदापि पूर्वदृष्टदोषैर्जनः पूर्वकृतेन दोषेण युक्तत्वादुपहन्यते, भुजङ्गवदविश्वास्यश्च १२ भवति। लोभः (Greed) सर्वेषामपि वैर-विरोध-स्तेयादीनां विनाशानामाश्रयो लोभ एव । तथाहिहिताद् व्यं सयन्ति पुरुषमिति व्यसनानि, तेषां द्यूत-स्त्री-मद्य-आखेट-अर्थदूषणादीनां व्यसनाना राजमार्ग इव लोभ एव । यथा खलु राजमार्गेण द्विजादयश्चाण्डालादयश्च सर्वेऽपि गमनक्षमास्तथैव लोभराजमार्गेण सर्वाण्यपि व्यसनानि प्रस्फुटन्तीतस्तत मनुष्यं गमयन्त्यागमयन्ति च । अत एवविवस्य लोभस्य मुखे पतित लोभपरिणामभाक् कः खलु दुःखानन्तरं सुखमुपेयात् ? एवमेते सर्वेऽपि क्रोध-मान-माया-लोभा नरकादिविभिन्नासु गतिषु परिभ्रामकत्वात् तीव्रदुःखदायकाः, संसरणमार्गप्रवर्तकाश्च सन्ति । अस्यायमाशयः यद् हिंसानतादिपापानामाचरणं संसारहेतुः, एतेषां पापानामाश्रयरूपश्च कषायवशीभूतो जीवः । ततश्च सः सांसारिक एव तिष्ठति । १५०
जनवर्शन मात्म-प्रव्यविवेचन