________________
अनयोर्द्धयोरपि ध्यानयोरात्मपरिणामास्तीव्रतरा जायन्ते। यस्य मे भावाः, स नूनमेव रागद्वेषाधीनत्वमधिगच्छति। तेन च जीवरक्षादीनां कार्याणा, प्राणिहिंसादीनाञ्चाकार्याणां निर्णयेऽक्षमः, कलुषितपरिणामात्मकेन कालुष्येण च युक्तः सन् निर्मलभावात्मिक्या विशुढ्यापरिचितश्चाहार-भय-मैथुनपरिग्रहादिकलहैप्रस्तः रागादीनामाधीनत्वमुपगच्छति । सकषायत्वम् (With-Passion) यश्च जीवः शताधिकानां गतीनामनेकेषु जन्ममरणात्मकेषु परिभ्रमणेषु पुनः पुनः परिभ्रममाणः क्लिष्टाष्टविधकर्मभिर्बद्धस्तथा च सहस्राधिकनरकादिगतिषु निरन्तरं दुःखैराक्रान्तत्वात् कृशतामधिगमनाच्च करुणास्पदः, तथा च विषयेष्वीडशोऽनुरक्तो यत्तस्येच्छा विषयसुखावाप्तावपि न तज्जनितेन सुखेन शाम्यति, अपितु सततं वर्द्धत एव, अस्मात्कारणात् विषयतृष्णया तृषितो रागद्वेषाधीनत्वमधिगच्छति । रागद्वेषादय एव कषायस्तदात्मकत्वादेवायं क्रोधी, मानी, मायावी, लोभवांश्च जायते । तत्र मोहकर्मोदयादुत्पन्न आत्मनो क्रोधनपरिणामो क्रोधः । अनेनास्मिन्नेव लोके स्वीय. प्रियजन. सह स्नेहविच्छेदादुःखमुत्पद्यते । अहमेव ज्ञानी-दाताशूरश्चेत्यादिकात्मपरिणामो मान । अस्माच्च विनयो विनश्यते । विनयश्च धर्ममूलमतः मानोदये सति, उपजातगर्व. जीव. देव-गुरु-साधु-वृद्धेषु यथायोग्य करणीयाद्धर्माद्विनयाद्वा भ्रश्यते । सत्यवादिनमेव पुरुष लोकः (जना.) न्यासकाद्यपस्थान करोति, यतो हि तस्य प्रत्यर्पणे सत्यात्मकत्वाल्लोकस्तस्मिन् विश्वसिति, अयमेव विश्वासः प्रत्ययः । पर शाठ्यपरिणामस्य मायायाः समुदये सति न्यासकापह्नवात्मकादसत्यभाषणात्प्रत्ययस्य हानिर्भवति । आत्मनो लोभपरिणामश्च तृष्णा, तदुदयाच्च लोभाभिभूतो क्षमामार्दवादीनां सर्वेषामपि गुणानां समुलकाषमाप्नोति, तस्माच्च सर्वगुणविनाशभाग्भवति । क्रोधः (Anger) यथा खलु दाहज्वरपीडितस्य रोगिनो कायः सर्वदा परिदहति, तथैव क्रोधिनोऽप्यन्तरात्मा सततं परिदहति । क्रोधाभिभूतेन च कुतश्चिन्निमित्तात् कृतो वधबन्धनाभिघातादिवरः सन्तानपरम्परामुत्पादयति। अतएवायं सर्वस्यापि भयमुत्पादयति । क्रोधिनश्च मुक्तावप्यसमर्थत्वात् क्रोधो मुक्तिघातकः । शास्त्रष्वपि श्रूयते, यत् सुभूमपरशुरामादयो क्रोधाविष्टात्मकत्वादेव न सुगति (मोक्ष) लब्धवन्तः । अनेन ज्ञायते, यत्क्रोध एवेहलोकपरलोकयोरपायकारी।
१४६
आत्मनः पारतन्त्र्यम्