________________
कोपाग्नेश्च संधोक्षणात्मकेन प्रचण्डेन वात्मनि य. भावः समुत्पद्यते, स एव 'दोषः" इति । मिथ्यात्वम् (Wrong-Belief) जैनदर्शनानुसारमहत्प्रतिपादिताना तत्त्वानामश्रद्धानमेव मिथ्यात्वम् । तच्च त्रिविधम्-अभिग्रहीतानभिग्रहीतसन्देहभेदेन । तत्र त्रिषष्टिशतत्रयं पाखण्डिशताना यन्मतम् तदभिग्रहीतम, अप्रतिपन्नदेवतापाखण्डरूपमनभिग्रहीतम्, श्रुतज्ञानस्यैकस्मिन्नप्यक्षरे पदे वाऽनभिरुचिस्सन्देह । यस्य चैतत्त्रिविधं मिथ्यात्वं, तस्य बुद्धिरप्यवश्यं मलिना भवति । बुद्धेर्मालिन्येन च जीवः पञ्चेन्द्रियाणा विषयेष्वासक्तो भवति, अथ च हिसाऽनृतास्तेयकुशीलपरिग्रहादिपञ्चपापेषु प्रवृत्तो भवति । एतस्माच्च कर्मणामास्रवो प्रारभते, कर्मास्रवाच्चात्मनि कर्मरूपमलस्य पृथुला राशिरैकत्रिता भवति, तया चात्मा परतत्रत्वमधिगच्छति। प्रात्त ध्यानम् ऋतं दुखं, संक्लेशस्तत्रभवमातम्। आतञ्च यद्ध्यानं तदातध्यानम् । एतच्चतुर्विधं भवति । तथा है-अप्रियवस्तुन: सम्बन्धे सति तन्निवृत्यर्थ रात्रिन्दिव यच्चिन्तन, तदात्मकं ध्यानमाद्यम् । येन केन वा रोगेण व्याकुलिते सति तन्निराकरणार्थ रात्रिन्दिवं तद्विषयकं चिन्तनं द्वितीयं ध्यानम् । अभीष्टवस्तुनो विप्रयोगे मति, पुनस्तत्प्राप्त्यर्थ यच्चिन्तनं रात्रिन्दिवं, तत्तृतीयम् । तथा च चक्रवादीना विभवदर्शनात् 'ममाप्यस्य तपसः फलं परलोके एवविध एव स्यादि'त्यात्मकं चिन्तनं चतुर्थमार्तध्यानमिति । रौद्र-ध्यानम् क्रूरो-नृशसो वा रुद्रस्तस्येदं रौद्रम् । रौद्र ययानं तद्रौद्रध्यानमिति । एतदपि चतुर्विधम् अत्र 'येन केन प्रकारेण यत्रविशेषेणोपायविशेषेण वा, प्राणिनो व्यापाद्या.' इत्यात्मक चिन्तन हिसानुबन्ध्याख्यं प्रथम रौद्रध्यानम् । यैश्च कूटसाक्षिदानादिविभिन्नोपाय परो वञ्च्यते, तेषामुपायानां चिन्तनं द्वितीयमनृतानुबन्धिरौद्रध्यानम् । तथा च यैर्येरुपायैः घुघु रुक-कर्तरिका-छेदकखात्रादिभि. परधनमादीयते, तेषा चिन्तनं स्तेयानुबन्धी तृतीयं रौद्रध्यानम् । धनधान्यादिपरिग्रहसंरक्षणार्थ रात्रिन्दिव तदुपायानां चिन्तनं चतुर्थं विषयानन्दो रौद्रध्यानम्। १.४८
जैनदर्शन आत्म-द्रव्यविवेचनम्