________________
ये चात्मानो (जीवाः) अष्टविध सर्वैरपि कर्मभिविमुक्ताः, केवलं स्वस्मिन् (आत्मनि) एव विचरन्ति, ते सर्वेऽपि सांसारिकजन्म-फल-कारणाद्विमुक्ताः सम्यग्दर्शन-ज्ञान-चारित्रयुक्ता भूत्वा मुक्तत्वं भजन्ते । एतेषां सांसारिकबन्धनविमोक्षस्य साधनानां, मोक्षावाप्तिहेतूनां, मोक्षावाप्तौ च तत्स्वरूपादीनां विवरणं षष्ठाध्याये वक्ष्यमाणत्वन्नात्र विश्लेषितमिति ।
प्रात्मन: पारतन्त्र्यम् यः खल्वात्मा रागद्वेषाभ्यां संयुक्तो भवति, यस्य बुद्धिर्वा मिथ्यात्वेन सिता भवति, स एव मलिनत्वमधिगच्छति । तया च बुद्धया पञ्चेन्द्रियविषयोप. भोगात्, हिंसादिपञ्चविधपापाचरणाच्च यस्यात्मा कर्ममलीमसः, अथ चातरोद्रध्यानतीव्रपरिणामयुक्तो जायते, स एव तत्तन्निमित्तात्पारतन्त्र्यमधिगच्छति । अत्र ये खलु रागद्वेषादयः, मिथ्यात्वादयः, रौद्रातध्यानाः, कषायाश्च तेषामत्र संझेपतो विवेचनमावश्यकम् ।
TT: (Love) रमणीयेषु योषितादिद्रव्येषु आत्मपरिणामरूपेच्छया, बाह्यवस्तुभिश्च सहकीभवनरूपपारिणामात्मिक्या मूर्छया, अभीष्टवस्तुनोऽभिलषितेन कामेन, विशिष्टानुरागरूपेण स्नेहेन, अप्राप्तवस्तुनोऽभिकाङ्क्षणेन गार्थेन, 'इदं मदीय' 'अहमस्येश्वर' इत्यादिमनःपरिणामात्मकेन ममत्वेन, अभीष्टप्राप्तौ परितोषेणाभिनन्दनेन वा यदास्रवते, तदेव 'रागः" इत्युच्यते । द्वेषः (Hatred) यस्य जीवस्यात्मनि परविभवादिदर्शनात् एतेन विभवेनायं वियुज्यताम्' 'विभवश्चायं ममैवास्तु' 'कस्यचिदन्यस्य मा भूत्' इत्यादिको यश्चितपरि. णामस्तदेवा, तया चेतरस्य कस्यचिदपि सौभाग्य-रूपलोकप्रियत्वादिदर्शनादुत्पन्नेन क्रोधरूपेण रोषेण, दूषणात्मकेन दोषेण, परदोषोत्कीर्तनेन परिवादेत, सद्धर्माद्विचलनरूपेण च मत्सरेण, परगुणोत्कर्षाचसहनात्मकेनासूयत्वेन, परस्परं कलहादिनोत्पन्लेन क्रोधात्मकेन वैरेण, प्रकृष्टस्य क्रोधस्य प्रशान्त