________________
तत्र पूर्वस्यां दिशि एकोरुकाः, अपरस्यां दिशि लांगूलिन:, उत्तरस्यां भाषकाः, दक्षिणस्याञ्च विषाणिन. प्राणिनः सन्ति । विदिक्षु तु शशकर्ण- शष्कुलीकणंकर्णप्रावरण- लम्बकर्णा, अन्तरेषु चाश्व-सिंह-श्व- महिष-वराह-ग्याघ्र-उलूककपिमुखाः, शिखरिण उभयोरन्तयोश्च मेघविद्युन्मुखाः, हिमवत उभयोरन्तयोश्च मत्स्यमुखा कालमुखाश्च, उत्तरविजयार्धस्योभयोरन्तयोः हस्तिमुखाः, आदर्श मुखाश्च, दक्षिणविजयार्धस्यो भयोरन्तयोश्च गोमुखाः मेषमुखाश्च प्राणिनो निवसन्ति ।
कोरुका मृदाहारा. गुहावासिनः शेषास्तु पुष्पफलाहारा वृक्षवासिनश्च सन्ति । एते सर्वेपि पत्योपमायुषो भवन्ति । अत्र द्विविधेषु म्लेच्छेषु कर्मभूमिजास्तु शक- यवन-शबर- पुलिन्दादयो भवन्ति, अन्तद्वीपजाश्च म्लेच्छा एव भवन्तीति ।
तियंञ्चः
तिरोभाव. - न्यग्भावः उपबाह्यत्वमित्यर्थः । तत. कर्मोदयापादितभावानां तिरश्चियोनिर्येषां ते तिर्यग्योनयः " । औपपादिकेभ्यो देवनारकेभ्यो, गर्भजसम्मूच्र्छनजेभ्यो मानुषेभ्यश्च व्यतिरिक्ताः ये ते तिर्यग्योनयस्ते चैकेन्द्रियादिपञ्चेन्द्रियान्ता. खलु सूक्ष्मबादरभेदाभ्यां द्विविधा भवन्ति । तत्र सूक्ष्मनामकर्मोदयापादितभावा पृथिव्यप्तेजोवायुवनस्पतय. सूक्ष्मा सर्वलोकव्यापिनः । बादर नामकर्मोदयापादितभावाः पृथिव्यप्तेजोवायुवनस्पतयो विकलेन्द्रियाः पञ्चेन्द्रियाश्च यत्र कुत्रचिदेव वर्तन्ते, न तु सर्वत्र ।
यथा खलु देवानामूर्ध्वलोक, मनुष्याणां मध्यलोको, नारकाणामधोलोकस्तथैवैतेषामपि यद्यप्याधारविशेषो ( तिर्यग्लोक) मध्यलोक एवास्ति, तदपि तेषां स्थावर कायरूपेण सर्वत्रापि सद्भावात् सर्वलोकव्यापकत्वम् । मूलतस्त्विमे Rootsftraiदेव 'तिर्यञ्च' इति सार्थकनामा सन्ति ।
एवमिमे संसारिण. प्राणिनश्चतुर्विधा देवनारकमानुषतिर्यञ्चस्तत्तन्नामकर्मोदयात्तत्तज्जातिषु समुत्पन्ना पुनः पुनः शुभाशुभकर्माणि कुर्वन्तश्च भवाद्भवान्तरमधिगतवन्तस्तत्तज्जन्मोपात्तशुभाशुभफल भुञ्जन्तोऽस्मिन्नेव
जगच्चक्रे संसरन्तस्तिष्ठन्त्यत एवैतेषा संसारीति संज्ञा । अत एतेषा संसारित्वमनादितः प्रचलन्नद्यापि वर्तते, भविष्यत्यपि च स्थास्यति, अनाद्यनन्तत्वादिति ।
१४६
जनदर्शन आत्म-द्रव्यविवेचनम्