________________
सति ज्ञानतन्तूनां क्षीणत्वं, स्मृतेभ्रंशः, उन्मादादीनामाविर्भावश्चापि जायते । आत्मनः संसरणशीलत्वात् शरीरे बद्धत्वेऽपि गत्यात्मकत्वमस्ति । यद्यात्मा शुद्धः स्यात्तर्हि शरीरसम्बन्धस्य न किञ्चित्कारणमन्यत् । शरीरसम्बन्धस्य
१५६
राग-द्वेष-मोह कषायादिभावा: हेतुभूताः, शुद्धात्मनि चैतेषां परिणामानां भावो शुद्धात्मकत्वादशक्य: “" स्यात् । किन्त्वेते विभावास्तेषां शरीरसम्बन्धरूपं फलञ्च प्रत्यक्षतयैवानुभूयेतेऽतो ज्ञायते यदद्यावधिरियमस्याशुद्धपरम्परैव प्रचलन्ती विद्यते ।
अस्यायमेवाभिप्रायो यज्जीवस्य रागद्वेषादिवासना, पुद्गलकर्मबन्धसन्ततिश्च बीजवृक्षसन्ततिवदनादित एव वर्तन्ते । पूर्वोपार्जितकर्मोदयाद्रागद्वेषादयस्समुत्पद्यन्ते, तदा च या जीवस्यासक्तिः, सैव कर्मबन्धहेतुर्भवति । किन्त्वत्र न केवलं पूर्वोपार्जितकर्मभोगान्नवीनानां कर्मणां बन्धो जायतेऽपि तु तत्र (भोगकाले) नूत्नरागादिभावानामुत्पत्तिरपि बन्धहेतुरूपोत्पद्यते ।
नूत्नकर्मोत्पत्तिः
यथा खलु तप्तमयः पिण्डं पयसि प्रक्षिप्ते सति, पयः परमाणून् स्वस्मिन् गृह्णाति तथा च शोषितेषु तेषु परमाणुषु केचन बहिर्गच्छन्ति बाष्परूपेण, यावच्च तत्पिण्डमुष्णं तिष्ठति तावदियं प्रक्रिया प्रचलति येन पयसि मन्थन - ञ्चापि भवति । तथैव यदायमात्मा रागद्वेषादिभिरुत्तप्तो भवति, तदा शरीरे हलन चलन क्रियोत्पद्यते । तद्यथा - क्रोधे चक्षूंषि रक्तवर्णानि जायन्ते, रुधिरगतिर्वर्धते वदनं शौष्क्यमुपगच्छति, नासिकापुटो च स्फुरतः, कामवासनायाः जागृतौ सत्यां शरीरे तु मन्थनविशेषः प्रारभते । यावच्च नायं कषायः शांतो भवति, तावन्मन्थनं भवत्येव, नावरुध्यतेऽर्थादात्मनो विचारानुसारमेव पुद्गलद्रव्येष्वपि परिणमनं जायते । तद्विचारोत्तेजकाश्च पुद्गलपरमाणवो वासनया ( कषायेण ) युक्ते सूक्ष्मकर्मशरीरे श्लिष्टाः भवन्ति । यदा च ते कर्मपुद्गलाः स्फुरन्ति तदा पुनः पुनस्तेषां भावानामुत्पत्तिः, ततश्च नूत्नकर्मपुद्गलानामास्रवः, ततश्च तत्परिपाकानुसारं नूत्नरागादिभावानामुत्पत्तिर्जायते । एवं रागादिभावकर्मपुद्गलाना सम्बन्धेनेदं जगच्चक्रं, यावन्न विवेकचारित्राभ्यां रागादीनां विनाशस्तावत् सततं प्रचलति ।
अतएव सम्यग्दृष्टेः पूर्वकर्मणामुपभोगः रागादिभावानामभावात्मकत्वान्निर्जराहेतुर्भवति । यदा हि तेनैवोपभोगेन मिथ्यादृष्टिनू लं. कर्मभिर्बध्यते । यतो हि सम्यग्दृष्टिस्तु पूर्वकर्मोदयोत्पद्यमानान् रागादिभावान् स्वज्ञानात् शमयति, न तेषु नृनामासक्ति करोति । अतस्तानि कर्माणि फलदानानन्तरं निर्जरामधिआत्मकर्मणोः सम्बन्धः
१६१