________________
गच्छन्ति । मिथ्याडष्टिस्तु नित्यं प्रति नूनवासनासक्तितया द्रुतेन कर्मबन्धत्वमधिगच्छति ।
भौतिकमिदं जगत् पुद्गलेनात्मना च प्रभावितं भवति । यदा कर्मणां विशिष्टशक्तेरेकं स्रोतः भौतिकपिण्डमात्मना सम्बध्यते, तदा तस्य सूक्ष्म - तीव्रशक्त्यनुसारं बाह्यपदार्था अपि प्रभाविताः भवन्ति, प्राप्तसामग्र्यनुसारं च सञ्चितकर्मणां तीव्र-मन्द-मध्यमादिपरिणामोऽपि समुपलभते, एवमिदं कर्मचक्रमनादिकालात्प्रचलितं विद्यते, तथा च यावदुबन्धकानां रागादिवासनानां न सर्वथा विनाशो भविष्यति, तावत्प्रचलिष्यत्येव ।
श्रात्मना कर्मणामनादिः सम्बन्धः
ये खलु राग-द्वेषादिजन्यसंस्काराः कर्मबन्धकास्तेऽपरस्मिन्नेव क्षरणे शील- व्रतसंयमादिपवित्र भक्षणत्वमप्युपगच्छन्ति । यदि तस्मिन् क्षणेऽन्येषामपि नूतनानां रागादिभावानां निमित्तं प्राप्यते, तत्प्राग्बद्धेषु कर्मपुद्गलेषु तदितरेषामपि कृष्णकर्मपुद्गलानां संयोगस्तीव्रतयोपजायते । इत्थं जीवनस्यान्ते कर्मणां बन्धनिर्जरयोरपकर्षणोत्कर्षणसंक्रमणादिषु सत्स्वपि यानि कर्माण्यवशिष्यन्ते, तान्येव सूक्ष्म-कर्मशरीररूपेण परलोकं यावद्गच्छन्ति ।
आत्म-शरीरसम्बन्धः, प्रकृति-पुरुषयोश्च संयोग, ब्रह्मणोऽविद्योत्पत्तिश्च कदा जाता ? इत्यस्य केवलमेकमेवोत्तरं यत् 'अनादिकालत' । किञ्च यस्मिन् समये समग्ररूपेणैतेषां संयोगानामभावो, विनाशो वा स्यात्तदा संसारस्याप्यभावो विनाशो वावश्यम्भावी, किन्तु नैतादृशस्य कालस्य केनापि दार्शनिकेन कल्पन कृतम् । व्यक्तिशस्त्वात्मना पुद्गलसंसर्गस्य, प्रकृतिसंयोगस्य वा तत्स्वरूपं परिसमाप्यते, येनात्मा संसारीत्युच्यते । अथवेदमपि तदुत्तर शक्यम्, यद्येते आत्मा-पुरुष-ब्रह्मादयः शुद्धस्वरूपास्तदेतेषां संयोगोऽपि न स्यात् । यतो हि, शुद्धेष्वेतेषु न कश्चनैतादृशो हेतुरवशिष्यते, यः खलु पुद्गलस्य, प्रकृतेः, अविद्याया वा सम्बन्धकः, संयोजको वा तिष्ठतु । यदीदृश एवात्मा शुद्धः, इति चेत्तस्याशुद्धत्वस्य शरीरसम्बन्धस्य वा न कश्चनापि हेतुरासीद्विद्यते वा ।
नात्मकर्मणोः पृथक्त्वम्
यदा हीमो स्वतन्त्रसत्ताको भिन्नो पदार्थों, तदा तयोरतिप्राचीनोऽपि संयोगोऽपातु शक्यः, ततश्च द्वयोरपि पृथक्करणं शक्यम् । अर्थादात्मनः पुद्गलस्य चानादिकालिकः सम्बन्धः, तद्बन्धश्च जीवस्य रागद्वेषादिभावैरुत्तरोत्तरं
जैनदर्शन आत्म-द्रव्यविवेचनस्
१६२