________________
वर्धते । यदा चेमे रागादिभावाः क्षीयन्ते तदायं बन्धो नात्मनि नूत्नविभावमुत्पादयितुं प्रभवत्यत शनैशनैस्सकृद्वा परिसमाप्यते । यतश्चायं बन्धो द्वयोः स्वतन्त्रसिद्धयोः पदार्थयोरेवास्ति, अतः विनाशयोग्योऽथवा तदवस्थायामप्यवस्थातुं योग्यो भवति, यस्यां तत्सन्निधानेऽप्यात्मा तेन निस्सङ्गो निर्लेपो वा जायते ।
एवं जैन दर्शनेऽयमात्मानाद्यशुद्धः स्वीकृतः, किन्तु प्रयोगः शुद्धोऽपि सादृश्यः । एकदा च शुद्धौ सत्यां न पुनरशुद्धत्वस्योत्पादक. कश्चन हेतुस्तत्रावशिष्यते । आत्मनोऽशुद्धेयं दशा स्वरूपप्रच्युतिरूपा परपदार्थेषु च ममत्वाहङ्काररूपा"" । अतोऽस्याः अन्तोऽपि स्वरूपज्ञानेनैव शक्यः ।
श्रात्मज्ञानयोः सम्बन्धः
श्रात्मनो ज्ञानस्वभावः
आत्मशब्दस्य सिद्धि: अत्-सातत्यगमनार्थकधातोर्भवति, गमनार्थक शब्दानां ज्ञानार्थकत्वादात्मनोऽपि ज्ञायकत्वं - ज्ञानसंयुक्तत्व स्वत एव सिध्यतीति प्रागेवोक्तम्, अर्थादात्मनो ज्ञानेनानादिकालिक एव सम्बन्धो विद्यते, न तु कदाप्यात्मा ज्ञानविरहित आसीत्, नापि भविष्यति ।
यावत्खल्वयमात्मा विभिन्नकर्मवशात् मलीमसो भूत्वास्मिन् संसारे संसरन् तिष्ठति, यद्यपि तावत्तस्य स्वाभाविकाः गुणाः तत्तत्कर्मकृदावरणजन्यमालिन्ययुक्ताः भवन्ति, येन न ते स्वाभाविक्या शक्त्यात्र प्रस्फुटन्ति, तथापि तद्गुणानामात्मनो स्वाभावादस्तित्वं तु विद्यत एव । यावच्चायं विभिन्नावरणैर्युक्तस्तिष्ठति तावत्तस्य ज्ञानशक्तिरप्यंशत्वेनावृता तिष्ठति, येन तस्य ज्ञानं विभावयुक्तं जायते, किन्तु ज्ञानावरणादिकर्मणां क्षयोपशमात् मति श्रुतादीनि ज्ञानानि प्रस्फुटन्ति । ततश्च घातिचतुष्कस्यापि यदा विनाशं करोति, तदा स ज्ञानस्य परिपूर्णा शक्तिमधिगच्छति ।
यथा खलु सूर्यस्य प्रतापनः प्रकाशकश्च स्वभाव:, किन्तु मेघपटलाच्छादितेऽपि तस्य प्रताप - प्रकाशयोरस्तित्वं ज्ञायत एव लोकैः । किञ्च यदैव तन्मेघपटलावरणमपसरति तदा पुनरपि सूर्यः स्वीयेन प्रताप - प्रकाशस्वभावेन सयुक्तः सर्वेरेवानुभूयते, तथैवायमात्मापि ।
सोऽयमात्मा यदा कर्मसंयुक्तस्तदा स्वीयेनेन्द्रियरूपकरणेन विभिन्नपदार्थानवगच्छति, किन्तु यदा स शुद्धोपयोगसामर्थ्यात् घातिकर्मणां प्रक्षीणात्, क्षायोपआत्मज्ञानयोः सम्बन्धः
१६३