________________
शमिकादिज्ञानासंपृक्तत्वाच्चातीन्द्रियो जायते, तदा च ज्ञानदर्शनसम्बन्धिनां सर्वेषामप्यावरणानां सर्वथा क्षयत्वात् समुपलब्धज्ञानदर्शनतेजः, स्वयमेव स्वपरप्रकाशक ज्ञानमधिगच्छति, अर्थादिन्द्रियविनाप्यात्मनि ज्ञानं संपद्यते । मात्मज्ञानयोरेकत्वम् यच्चात्मनि ज्ञानं जायते तद्ज्ञानं जीवातिरिक्तेष्वन्येषु न कुत्रापि युज्यते, केवलमात्मनि जीवे एव वा तस्य सम्बन्धो जायते, येनात्मनो ज्ञानस्य चैकत्वमित्युच्यते । यतो हि, ज्ञानमात्मनो गुणः, सहभावित्वात् । न ज्ञानमात्मना विरहित कुत्रचिदपि प्राप्यते, नापि तस्य कश्चिदात्मातिरिक्तस्तु आधारो विद्यतेऽतः ज्ञानस्य आत्माश्रयत्वात्तदात्मकत्वमेव स्वीक्रियते । अस्मात्कारणादेवात्मनो ज्ञानस्य चाभेदमवलोक्यानयोरेकत्वं स्वीकृत जनदार्शनिकैः । किन्त्वत्र नात्मनो ज्ञानगुणात्मकत्वं स्वीकृत्य सर्वथाभेदस्तयो स्वीकृतोऽपितु ज्ञानगुणस्य तदात्मकत्वापेक्षयवायमभेद., यतो हि, आत्मनो द्रव्यत्वात्तस्मिन्नन्येऽपि ज्ञानातिरिक्ता सुखादयो गुणा सन्ति । यदि ज्ञानात्मनोःसर्वथाऽभेद एव स्वीक्रियेत तदा ज्ञानात्मकत्वात् तस्य द्रव्यत्वमुपपद्यते, गुणस्य च द्रव्यत्वे सति, तत्र गुणानामभावात् तस्य गुणविरहितत्वादभाव सम्पद्येतातो न ज्ञानस्यात्मनश्च सर्वथा भेदः स्वीकरणीयः। एवमेवात्मनोऽपि गुण. ज्ञानमिति स्वीकृते तत्र केवल ज्ञानमेवैको गुणस्तिष्ठेत, अन्येषा गुणाना त्वभावस्सम्पद्येत, तदा च गुणानामभावे सति आत्मद्रव्यस्याप्यभाव. सिद्ध्येत, आत्मद्रव्याभावे तु ज्ञानगुणस्यापि निराश्रयत्वादभावः स्यादतो ज्ञानगुणस्यात्मातिरक्तेऽन्यपदार्थेऽविद्यमानत्वात्तस्य कथञ्चिदात्मरूपत्वम्, अथ चात्मनोऽपि ज्ञानगुणापेक्षया ज्ञानत्वमस्तीति । प्रात्मनो ज्ञानप्रमाणत्वम् यावन्तोऽपि पदार्था जगति विद्यमानास्सन्ति, तेषा सर्वेषामपि ज्ञायकं ज्ञानम् । आत्मा च ज्ञानगुणयुक्तोऽत. सर्वेष्वपि पदार्थेषु ज्ञानस्य विद्यमानत्वात् तत्र सर्वत्रात्मापि तिष्ठति । यतो हि, यस्य द्रव्यस्य ये गुणास्सन्ति तस्य तेषु सर्वत्र विद्यमानत्वात् तत्प्रमाणत्व भवति । अत आत्मापि स्वगुणभूतज्ञानप्रमाणत्वात् सर्वेष्वपि पदार्थेषु तिष्ठति, न तदधिक, तदहीन वा कदापि तिष्ठति । यथा खलु स्वर्णद्रव्य स्वपर्यायेषु कुण्डलादिषु सर्वत्रापि पीतिमादिगुणरूपेण सहैव तिष्ठति, तथा चेन्धनस्थिताग्निर्यन्धनप्रमाणा भवति, तथैवायमात्मापि स्वज्ञानगुणप्रमाणमवसेयम्।
जनदर्शन आत्म-द्रव्यविवेचनम्