Book Title: Jain Darshan Atma dravya vivechanam
Author(s): M P Patairiya
Publisher: Prachya Vidya Shodh Academy Delhi

View full book text
Previous | Next

Page 43
________________ धर्माः गुणा वा विद्यन्ते, तथैव प्रत्येकस्मिन् द्रव्ये द्रव्यत्वादेकत्वेऽपि परस्परं विरुद्धा अनेकधर्मगुणाः स्पष्टमेव प्रतिभासन्ते । अतएवात्र संशयविरोधयुक्तेभ्यो धर्मकीर्तिनेदं प्रतिपादितम् 'यदीयं स्वयमर्थेभ्यो रोचते तत्र के वयम् । अतः द्रव्यस्य स्वद्रव्यक्षेत्र कालभावापेक्षया भावत्वम्, परद्रव्यक्षेत्रकालभावापेक्षया चाभावत्वमपि वर्तते । न केवलं भावत्वेन नाप्यभावत्वेन वा व्यवस्था भवति, तथाहि-- यदि द्रव्यवत् पर्यायोऽपि केवलं भावरूप एव स्वीक्रियेत तदा प्राक् प्रध्वंस - अन्योन्य- अत्यन्ताद्यभावानाम भावात्पर्यायाणामप्यनाद्यनन्तत्व स्यात्तदा त्वेकं द्रव्यमन्यरूपं भूत्वा प्रतिनियतद्रव्यव्यवस्थामेव समाप्नुयात् । तथाहि १ - प्रागभावः - कार्य कारणादुत्पद्यतेऽत किञ्चिदपि कार्यमुत्पत्तेः प्राक् असद्भवति । उत्पत्तेः प्राक्कार्यस्य योऽभावः स एव प्रागभावः, अभावोऽयं भावान्तररूप. । द्रव्याणामनाद्यनन्तत्वात् निश्चितसंख्यात्मकत्वादन्यूनाधिकत्वाच्च द्रव्यरूपेण कारणत्वम्, पर्यायरूपेण च कार्यत्वम्, यतो हि द्रव्याणि नोत्पद्यन्ते, पर्याया एवोत्पद्यन्ते विनश्यन्ति च । अतो यः पर्याय उत्पद्यमानो वर्तते, न स उत्पत्तेः प्राग्वर्ततेऽतोऽत्र यस्तस्याभाव:, स एव प्रागभाव. । प्रागभावोऽय पूर्वपर्यायरूपो भवति । इत्थमत्यन्तसूक्ष्मकालदृष्ट्यापि पूर्व पर्याय एवोत्तरपर्यायस्य प्रागभाव, पूर्वपर्यायस्य च तत्पूर्वपर्यायः । अनया सन्तत्या चायमनादिर्भवति । यद्यत्र कार्यपर्यायस्य प्रागभावोऽस्वीक्रियेत तत्कार्यपर्यायाणामनादित्वाद्रव्येषु त्रिकालवर्तीना सर्वेषामपि पर्यायाणामेकस्मिन्नेव काले सद्भावः स्यात् स च प्रतीतिविरुद्ध । २- प्रध्वंसाभावः -- द्रव्यमविनाशि, पर्यायाश्च विनाशशीलाः कारणं हि विनश्य कार्यरूपमभिगच्छत्यत. कारणपर्यायस्य नाशो कार्य पर्यायरूप, कश्चनापि विनाशो नाभावरूपोऽपितृत्तरपर्यायरूप एव भवति, अस्यायमाशय:यत्पूर्वपर्यायस्य नाश सर्वदोत्तरपर्यायरूप एव भवति । यद्ययं प्रध्वंसाभावोऽपि न स्वीक्रियेत तदापि सर्वकार्य पर्यायाणामनन्तत्व स्यात् । यदीदं शङ्क्यते यत्पूर्वपर्यायस्य विनाश उत्तरपर्यायरूपः, तदुत्तरपर्यायस्य नष्टे ( पूर्व पर्यायशस्य विनाशे ) पुनः पूर्व पर्यायेण भाव्यम् १ विनाशनाशस्य सद्भावरूपत्वात् ? तन्न समीचीनम्, यतो हि - कारणोपमर्दनात्कायत्पत्तिस्तु जायते, किन्तु कार्योपमर्दनेन न कारणोत्पत्तिर्भवति, उपादानस्यो ६२ जनदर्शन आत्म-द्रव्यविवेचनम्

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190