________________
धर्माः गुणा वा विद्यन्ते, तथैव प्रत्येकस्मिन् द्रव्ये द्रव्यत्वादेकत्वेऽपि परस्परं विरुद्धा अनेकधर्मगुणाः स्पष्टमेव प्रतिभासन्ते । अतएवात्र संशयविरोधयुक्तेभ्यो धर्मकीर्तिनेदं प्रतिपादितम्
'यदीयं स्वयमर्थेभ्यो रोचते तत्र के वयम् ।
अतः द्रव्यस्य स्वद्रव्यक्षेत्र कालभावापेक्षया भावत्वम्, परद्रव्यक्षेत्रकालभावापेक्षया चाभावत्वमपि वर्तते । न केवलं भावत्वेन नाप्यभावत्वेन वा व्यवस्था भवति, तथाहि-- यदि द्रव्यवत् पर्यायोऽपि केवलं भावरूप एव स्वीक्रियेत तदा प्राक् प्रध्वंस - अन्योन्य- अत्यन्ताद्यभावानाम भावात्पर्यायाणामप्यनाद्यनन्तत्व स्यात्तदा त्वेकं द्रव्यमन्यरूपं भूत्वा प्रतिनियतद्रव्यव्यवस्थामेव समाप्नुयात् । तथाहि
१ - प्रागभावः - कार्य कारणादुत्पद्यतेऽत किञ्चिदपि कार्यमुत्पत्तेः प्राक् असद्भवति । उत्पत्तेः प्राक्कार्यस्य योऽभावः स एव प्रागभावः, अभावोऽयं भावान्तररूप. । द्रव्याणामनाद्यनन्तत्वात् निश्चितसंख्यात्मकत्वादन्यूनाधिकत्वाच्च द्रव्यरूपेण कारणत्वम्, पर्यायरूपेण च कार्यत्वम्, यतो हि द्रव्याणि नोत्पद्यन्ते, पर्याया एवोत्पद्यन्ते विनश्यन्ति च । अतो यः पर्याय उत्पद्यमानो वर्तते, न स उत्पत्तेः प्राग्वर्ततेऽतोऽत्र यस्तस्याभाव:, स एव प्रागभाव. । प्रागभावोऽय पूर्वपर्यायरूपो भवति । इत्थमत्यन्तसूक्ष्मकालदृष्ट्यापि पूर्व पर्याय एवोत्तरपर्यायस्य प्रागभाव, पूर्वपर्यायस्य च तत्पूर्वपर्यायः । अनया सन्तत्या चायमनादिर्भवति । यद्यत्र कार्यपर्यायस्य प्रागभावोऽस्वीक्रियेत तत्कार्यपर्यायाणामनादित्वाद्रव्येषु त्रिकालवर्तीना सर्वेषामपि पर्यायाणामेकस्मिन्नेव काले सद्भावः स्यात् स च प्रतीतिविरुद्ध ।
२- प्रध्वंसाभावः -- द्रव्यमविनाशि, पर्यायाश्च विनाशशीलाः कारणं हि विनश्य कार्यरूपमभिगच्छत्यत. कारणपर्यायस्य नाशो कार्य पर्यायरूप, कश्चनापि विनाशो नाभावरूपोऽपितृत्तरपर्यायरूप एव भवति, अस्यायमाशय:यत्पूर्वपर्यायस्य नाश सर्वदोत्तरपर्यायरूप एव भवति । यद्ययं प्रध्वंसाभावोऽपि न स्वीक्रियेत तदापि सर्वकार्य पर्यायाणामनन्तत्व स्यात् ।
यदीदं शङ्क्यते यत्पूर्वपर्यायस्य विनाश उत्तरपर्यायरूपः, तदुत्तरपर्यायस्य नष्टे ( पूर्व पर्यायशस्य विनाशे ) पुनः पूर्व पर्यायेण भाव्यम् १ विनाशनाशस्य सद्भावरूपत्वात् ? तन्न समीचीनम्, यतो हि - कारणोपमर्दनात्कायत्पत्तिस्तु जायते, किन्तु कार्योपमर्दनेन न कारणोत्पत्तिर्भवति, उपादानस्यो
६२
जनदर्शन आत्म-द्रव्यविवेचनम्