________________
पमर्दनेनोपादेयस्योत्पत्तित्वात् । अत्र प्रागभाव-प्रहवंसाभावयोश्चोपादानोपादेयसम्बन्धो विद्यते । अतः 'यदतीतमतीतमेव तत्' इति नियमानुसारं विनष्टस्य प्रागभावस्य प्रध्वंसाभावनाशेन न पुनरुज्जीवनम् शक्यम् ।
३ - इतरेतराभावः - ( प्रन्योन्याभावः ) – स्वभावान्तरात् स्वस्वभावस्य व्यावृत्तिः, एकस्य पर्यायस्यान्यस्मिन् पर्यायेऽभावो वा एकस्य स्वभावस्य अन्यरूपाभावो वा स्वभावानां प्रतिनियतता वान्योन्याभावः । यथाहि:- घटस्य पटे, पटस्य च घटे, वर्तमानकालिकोऽभावः । कालान्तरे तु घटपरमाणवो मृत्तिका - कार्पास- तन्त्वादिपर्यायानधिगम्य पटपर्यायमधिगन्तु क्षमाः, किन्तु वर्तमाने तु घटो न पटः, इयमेव या वर्तमानकालिका व्यावृत्तिः संवान्योन्या
भावः ।
यस्याभावे कार्योत्पत्तिः स प्रागभावः यस्य भावे च कार्यस्य विनाशः सः प्रध्वसाभाव:, अत इतरेतराभावस्य अभावेन भावेन वा, उत्पत्या विनाशेन वा, सह सम्बन्धाभावान्न प्राग्प्रध्वंसयोः सतोः अन्योन्याभावस्यानावश्यकता, वर्तमानपर्यायाणा प्रतिनियतस्वरूपव्यवस्थापकत्वात् । यद्यप्यवमन्येत तत्कस्यचिदपि पर्यायस्य सर्वात्मकत्वस्य सम्भवः स्यात्, अतोऽयमप्यहेयः ।
कालिको
४ – अत्यन्ताभावः – एकस्य द्रव्यस्यान्यस्मिन् योऽभावः, स एवात्यन्ताभावः । यथाहि - ज्ञानस्यात्मनि यत्तादात्म्यं, न स कदापि पुद्गले सम्भवति । अत्यन्ताभावाभावे तु न कस्यचिदपि द्रव्यस्यासाधारणो भावः स्वरूपोऽवशिष्टः स्यात्, यतो हि सर्वं सर्वात्मकं भवेत् । अत्यन्ताभावादेवैकं द्रव्यं नान्यरूपं भवति, द्रव्ययोः सज्ञातीय- विज्ञातीययोः प्रतिनियतस्वा खण्डस्वरूपत्वान्न कदापि एकसत्तात्मकं मिश्रणं भवति ।
इमे चत्वारोऽप्यभावाः वस्तुनो भावरूपात्मकत्वादुद्धर्माः । एषामभावे स्वीकृते, द्रव्याणां केवलं भावात्मकत्वे वा स्वीकृते सत्युपयुक्ताः दोषाः बलात् समायान्ति, अतोऽभावाऽशोऽपि भावांशवद्वस्तुनो धर्मः इत्थं द्रव्यं भावाभावात्मकम् ।
यदि द्रव्यस्य ( वस्तुनो ) अभावात्मकत्वमेव स्वीक्रियेत, तदा बोधवाक्ययो अभावे जाते 'अभावात्मकत्वस्य तत्त्वस्य' स्वयमेव प्रतीतिरसिद्धा स्यात्, परप्रतिपत्तिश्चापि न स्यात् । स्वप्रतीतेः साधनं बोधः, परप्रतिपत्तेश्च साधकं वाक्यम्, अनयोरभावे स्वपक्षसाधनं, परपक्षदूषणं च कथं शक्नुयात् ? इत्थं विचारे कृते सति ज्ञायते यत्प्रत्येकमपि द्रव्यं भावाभावात्मकमेव भवति ।
नदर्शने द्रव्यव्यवस्था, तयं महत्वञ्च
६३