________________
द्रव्यस्य नित्यानित्यात्मकत्वम्
द्रव्यस्य सर्वथा नित्यत्वे स्वीकृते सति वस्मिन् परिणमनाभावादर्थक्रियायाः अभावो स्यात्, अर्थक्रियाकारित्वाभावे तु पुण्य-पाप-बन्ध-मोक्षादिव्यवस्था: विनष्टाः स्युः, अथ च जगतः प्रतिक्षणभाविनः परिवर्तनादयोऽप्य भवाः स्युः ।
सर्वाऽनित्यत्वे च स्वीकृते पूर्वपर्यायस्योत्तरपर्यायै असम्बन्ध, आदानस्मृति-प्रत्यभिज्ञादिव्यवहाराश्च उच्छिन्नाः स्यु, कर्तु कर्मफलावाप्तेश्च भावोऽपि स्यात् ।
सर्वथा नित्ये पक्षे कर्तृत्वासम्भवस्तर्हि सर्वथाऽनित्ये पक्षे कर्ता करिब भोक्ता च कश्चिदिति स्यात् । अय चोपादानोपादेयमूलक कार्यरणभावोऽपि न घटते ।
बदः लोक-परलोक कार्य-कारणभावादिव्यवस्थायें द्रव्येषु तेषां मोलिकसाया अनाद्यनन्तरूपस्य द्रव्यत्वस्य चाधारो ध्रुवत्वमेव स्वीकरणीयम् । नैनं विना द्रव्यस्य द्रव्यत्व सुरक्षित स्यादतः प्रत्येकमपि द्रव्यं स्वीयानाद्यनन्तधारायां प्रतिक्षणमेव सदृश-विसदृश - अल्प- सदृश- अर्धसदृशादिरूपेण परिणममानं न कदापि समूलोच्छेदं विनाशं वाधिगच्छति । न कदापीदं परिणमनचक्रमवरुद्धं भवति, न कदापि किञ्चिदपि द्रव्यं समाप्तिमधिगच्छति, अतः प्रत्येकमपि द्रव्यं नित्यानित्यात्मकमेव विद्यते ।
यन्नित्यं तत्कथमनित्यं स्यात् ? इत्यपि शङ्का न कर्त्तव्या, यतो हि - रयते जगति यत्कश्चन अपि पुरुष स्वीयासु बाल-युवा- वृद्धाद्यवस्थासु परिवर्तमानोऽपि स्वीयमस्तित्वमेकमेवानुभवति, येनैषु परिवर्तनेष्वपि तस्यैकरूपता तिष्ठति । यदेशी वस्तुस्थितिस्तदोपर्युक्तं शङ्कन व्यर्थमेव प्रतिभाति, यतो हि परिवर्तन/धारभूता सन्तानपरम्परा द्रव्यस्यानाद्यनन्तत्वं विना न घटते, इयमेव तस्य नित्यता यत्तदनन्तेषु परिवर्तनेषु सत्स्वपि विद्यतेऽतीतांश्च संस्कारान् गृह णन्, परित्यजश्च वर्तते, आगामिनञ्च प्रत्येक क्षणं समतीत्यापिवर्त्यते ।
यथा खलु 'यः स्वयमन्तिम स्यात् तदनन्तरगामी च न कश्चन, एताशस्य कस्यचिदपि कालक्षणस्य कल्पनाप्यशक्या' एतदिव विश्वस्य जगतोSणु-परमाणु-जीवादिषु कश्चनेको सर्वे वा कश्मिश्चित् काले निर्मूला अतएव समाप्ताः स्यु.' इयमपि कल्पनाशक्या । नेयं कल्पना बुद्धेः परा, यतो हि
जनदर्शन आत्म-ग्रन्यविवेचन
६४