________________
'अमुकस्मिन क्षणेsane य द्रव्यस्यामुकावस्था भविष्यतीति' परिवर्तनस्य प्रकारविशेषस्तु ज्ञातुमशक्यः, किन्तु द्रव्यस्य भविष्यति प्रत्येकस्मिन्नपि क्षणे यत्किञ्चित्परिवर्तनमवश्यमेव भाव्यमिति तु सुस्पष्टतया प्रतीयते बुध्या' ।
अतो द्रव्यस्य मौलिकत्वात्तस्य समाप्तेरभावः, यतो हि द्रव्यं परिणामिनित्यं प्रतिक्षणञ्च विलक्षणम् । प्रत्येकस्मिन् क्षणे तत् पर्यायैकयुक्तं भविष्यत्येव । यथा खलु स पर्यायोऽतीतपर्यायं विनाश्य स्वयमस्तित्वमागतः, तथैवोत्तरपर्यायं समुत्पाद्य स्वत एव विनङ्क्ष्यति । अतीतस्य व्ययः, वर्तमानस्योत्पादः, द्वयोश्च द्रव्यरूपेण श्रीव्यमस्त्येवेयमेव व्यात्मकता वस्तुनो वस्तुत्वम् । इदमेव स्वामिना समन्तभद्र'ण' कुमारिलभट्टेन' च प्रतिपादितम् । पातञ्जलमहाभाष्येऽपि " वस्तुनो व्यात्मकतायाः समर्थनं शब्दार्थमीमांसाप्रकरणे समुपलभ्यते, यदाकृतिनाशेऽपि पदार्थसत्तावशिष्यते । यद्यप्येकस्मिन्नेव क्षणे उत्पाद-व्यय- ध्रौव्याणां परस्परविरुद्धत्वं प्रतिभाति, किन्तु विचारे ते सति विरोधः शाम्यति । यतो हि नैनं विना तत्वस्वरूप निर्वाहो भवेत् । "
द्रव्यस्य भेदाभेदात्मकत्वम्
गुणगुणिनो, सामान्यसामान्यवतोः, अवयवावयविनोः कारणकार्ययोस्सर्वथा भेदे सति गुणगुण्यादिभावा न स्यु । सर्वथाभेदेऽपि 'अयं गुणः, अयं च गुणी' अयमपि व्यवहारो न सम्भवेत् । यद्यवयवी अवयवेभ्यो भिन्नस्तदवयवी स्वावयवेषु सर्वात्मनैकदेशेन वा तिष्ठति ? सर्वात्मना चेत्तर्हि — अवयवसंख्याकाः अवयविनोऽपि स्यु, यद्येकदेशेन तदवयवसंख्याका तस्य प्रदेशा. स्वीकरणीयाः । इत्थं सर्वथा भेदेऽभेदे वानेके दोषा. समायान्ति । अत. यद् द्रव्यं स एवाभेदः, यश्च गुण. पर्यायो वा स एव भेदः । पृथक् सिद्धयोद्र व्ययोर्यथा भेदः काल्पनिकस्तथैवैकस्य द्रव्यस्यापि स्वगुणपर्यायाभ्यां भेदो केवलं व्यवहारार्थमेव कल्प्यते । यतो हि गुणेभ्य पर्यायेभ्यो वा पृथक् न द्रव्यस्य किञ्चित् स्वत शास्तित्वं वर्ततेऽतस्तत्त्व भेदाभेदात्मकमेव स्वीकरणीयम् । एवमेवान्यानन्यात्मकत्वं" पृथक्त्वापृथक्त्वात्मकत्वं " वा तत्त्वस्य समन्तभद्राचार्येण व्याख्यातम् । यथैकः कश्चन पुरुषः विभिन्नापेक्षाभि. कर्तृ -कर्म-करणादिरूपेण व्यवहरति परं तस्य स्वरूपं तु स्वतः सिद्धमेव यथा भवति तथैव धर्म- धर्मिभावस्या"-पेक्षिकत्वेऽपि द्रव्यस्यापि स्वरूपं स्वतः सिद्धम् ।
केवलमयमेव निष्कर्षः - यद्द्रव्यस्यानन्तगुण पर्याय धर्मेभ्यः पृथक्स्वतंत्रास्तित्वाभावात्प्रत्येकस्यापि द्रव्यस्याखण्डस्य व्यवहारार्थमेवानेक
जैवर्शने व्यव्यवस्था, तदीयं महत्वञ्च
अस्य
-
-
६५