________________
धर्मादीनां विश्लेषणं विद्यते। नापि तेषां धर्मादीनां द्रव्याद् व्यतिरिक्ता काचित्सत्ता वर्तते । द्रव्य-व्यवस्था जैनदर्शने विभिन्नराचार्य. द्रव्याणां विवेचनं विभिन्नई ष्टिकोणः कृत विद्यते, तेषु प्रमुखानां सिद्धान्तानामत्र विवेचनं क्रियते । हे द्रव्ये विश्वस्य मूले मुख्यत' जीव. (Soul) अजीवश्च (Non Soul) एव विद्यतेऽनयोरेव सर्वत्र सम्मिश्रणम् । अनयोरेतेन सम्मेलनेन निर्मितंबन्धनर्जीवः नानाससारिदशामनुभवति । यदीय सम्मिश्रणधाराऽवरुद्धा स्यात्तदोत्पन्नान् बन्धनान् विनश्य जीव स्वीया शुद्ध-बुद्ध-मुक्तावस्थामाप्तु शक्नुयात्" । इत्थमत्र संक्षेपत द्वे एव द्रव्ये । अनयोर्ज्ञानरूपो जीवः, अज्ञानरूपश्चाजीव । पद्मनन्दिनाप्येतदेवोक्तम् चिदचिच्चेति द्वे परमतत्वे" (Ultimate reality) केचन च द्रव्याणामस्तिकायानस्तिकायरूपेण भेदमभिदधन्ति । अत्रास्तिकायपदेन तेषामेव ग्रहणं भवति येषामस्तित्वं बहुप्रदेशयुक्तत्त्वञ्चस्ति । यथाहि-जीवः (Soul), पुद्गल (Matter), धर्म. (Motion), अधर्मः (Rest), आकाशश्चेति (Space)। इमे सर्वेऽपि स्वीयेनास्तित्वेन सहैव बहुप्रदेशात्मकत्वात् काय इवाकाशे स्वस्वरूपानुसारं अवगाहन्ते, किन्तु कालोऽस्तित्वात्मकोऽपि बहुप्रदेशित्वाभावादकायवान् । इत्थं केवल काल (Time) एवानस्तिकाय , अन्ये चास्तिकाया । डा० रामनाथशर्मणापि सिद्धान्तोऽय स्वीकृत । पञ्च द्रव्याणि अन्ये च जैनदार्शनिका. जीवाजीवतत्त्वानामन्यदेव वर्गीकरणं कुर्वन्ति । येन केवलं पञ्चास्तिकायानामेव द्रव्यत्वेन स्वीकार , ते च यथा-जीव , धर्मोऽधर्म., आकाश , पुद्गलश्चेति । एषा पञ्चानामपि द्रव्याणा त्रिकालवर्तिना कालेन सम्बन्ध, त्रिकालस्थितत्वात् । अतोऽस्तिपदेनैषां स्थितेः (Existence) यथा बोधो भवति तथैव काय इव प्रदेशप्रचयत्वमप्येषा कायपदेन बुद्धयते । यतो हि समस्तमपि वस्तुजात यस्मिन् कस्मिन् वा देशे काले, (Time or Space) तिष्ठत्येव कालस्य द्रव्यत्वेनास्वीकारस्य विवेचनमग्ने करिष्यते । षड्वव्यारिण दिगम्बराचार्यास्तु पञ्चास्तिकायातिरिक्तं कालमपि द्रव्यरूपेण स्वीकृत्य
जनदर्शन आत्म-द्रव्यविवेचनम्