________________
षड्द्रव्याणीति" स्वीकुर्वन्ति । तेषाम्मतानुसारं कालस्यापि द्रव्यलक्षणयोगादेकप्रदेशित्वेऽपि (अनेकप्रदेशित्वाभावेऽपि), द्रव्यत्वमस्ति (Substance) एव । गुणः पर्यायश्च युक्तं" द्रव्यं, तत्र स्वयं गुणरहिताः द्रव्याश्रिताः गुणाः (Qualisties or Attributes) । यथा जीवस्य ज्ञानं, पुद्गलस्य रूपादयः, धर्मस्य गतिः, अधर्मस्य स्थितिः, आकाशस्यावगाहः, कालस्य च वर्तनाहेतुत्वम् । द्रव्यस्योपयुक्तरूपेण परिणमनं ( भिन्नावस्थासु परिणमनं ) पर्यायः (Action)। यथाहि-जीवस्य घटादिज्ञानं, सुखं क्लेशादयश्च, पुद्गलस्य मृत्पिण्डघटादयः, धर्मादे. गत्यादिविशेषाः । इत्थ कालेन सह षड्द्रव्याणीति प्रसिद्धम् । सप्ततत्त्वानि तत्त्वानि सप्तविधानि, तथाहि-जीवः (Soul) अजीवः (Non-Soul) आस्रवः (Inflow), बन्धः (Bondage) सम्बरः (Stoppage), निर्जरा (Shedding) मोक्षश्चेति" (Liberation)। उपर्युक्तेषु षड्द्र व्येषु प्रथमो जीव, शेषास्त्वजीवाः (अजीवस्यव भेदाः) सन्ति । अत: जीवाजीवयोरतिरिक्तमपि कश्चिदाचार्यः एषां पञ्चानामपि विश्लेषणं कृतम् । द्रव्य-व्यवस्थायाः महत्वम पदार्थव्यवस्थादृष्ट्येद जगत् षड्द्रव्यमयं वर्तते, किन्तु मोक्षार्थिने येषां पदार्थानां ज्ञानस्यावश्यकतापेक्षा वास्ति, तानि सप्ततत्त्वानि प्रागुक्तानि एव सन्ति । मोक्षप्राप्त्य जगत., जगद्धेतो., मोक्षस्य, मोक्षोपायानाञ्च ज्ञान तथवावश्यक विद्यते यथा खलु कस्मैचन व्याविग्रस्ताय व्याधिमुक्त्यर्थ व्याः, व्याधिहेतो, व्याधिमोक्षस्य, व्याधिमोक्षोपायानाञ्च ज्ञानमावश्यकम् । विश्वव्यवस्थाया. तत्त्वनिरूपणस्य चोद्देश्यानि पृथक्पृथगेव सन्ति । तत्त्वज्ञानान्मोक्षावाप्तिस्तु विश्वव्यवस्थाया ज्ञानाभावेऽपि शक्या, किन्तु विश्व-व्यवस्थायाः समग्रमपि ज्ञानं तत्त्वज्ञानाभावे निरर्थकमेव स्यात् । इत्थमात्मा बद्ध , एभिहेंतुभिर्बद्ध:, बन्धश्चाय भेद्यः, एभिश्चोपायर्भेद्यः, एषु चतुर्षु एव भारतीय. दार्शनिकः तत्त्वज्ञानस्य परिसमाप्तिः कृता। भगवता बुद्धनापि एषामेव चतुण्णां रूपान्तरेण दुःख, समुदयः, निरोधो, मार्गश्चेति चतुःसत्यानां विवेचनं कृतम् । मोक्षार्थिने तु क. मोक्ष. ? इति ज्ञानमावश्यकम्, यस्य प्राप्त्यै सः प्राप्तान् अपि सुखान् परित्यज्य स्वेच्छया साधना-कष्टमनुभवितु सन्नदो जनदर्शने द्रज्यव्यवस्था, तबीमं महत्त्वञ्च