________________
भवति । किन्वात्मनः स्वतन्त्रस्वरूपस्य ज्ञानं विना, तस्य सुखदस्वरूपस्य च ज्ञानं विना केवलं परतन्त्रतामपाकतु ताशस्योत्साहस्य भावो न स्यात् येन मुमुक्ष : तपसः साधनायाश्च कष्टान् स्वेच्छया सहितुं प्रयतते । अतस्तस्याधारभूतस्यात्मनः स्वरूपस्य ज्ञानं मोक्षार्थिने सर्वप्रथममावश्यकम् । यतश्चात्मा बद्धः, अतएव मुमुक्ष स्वभावतो भवति । अतएव भगवता महावीरेण बंधास्रवसंवरनिर्जरामोक्षादीनां ज्ञानेन सहैव जीवतत्त्वस्यापि ज्ञानमावश्यकमिति कथितम्, यतो हि जीव एव संसारी भवति, स एव बन्धमधिगच्छति, स एव च बन्धान् विदीर्य मोक्षमवाप्नोति। बन्धश्च जीवाजीवयोर्द्वयोव्ययोर्भवति, अतो यस्याजीवस्य सम्पर्केण जीवस्य विभावपरिणति', रागद्वेषसन्ततिः, यैश्च कर्मपुद्गलः बन्धः स्वस्वरूपाद् भ्रशन च जायते, तस्याजीवतत्त्वस्यापि ज्ञानमावश्यकमपेक्षितञ्च । अस्यायमेवाभिप्रायो वर्तते--यज्जीवाजीवादीनां सप्तानामपि तत्त्वानां मोक्षाय सर्वप्रथमं ज्ञातव्यत्त्वाद् दर्शनेषु एषा तत्त्वाना महत्वं वैशिष्ट्यं च जैनदार्शनिकः स्वीकृतम् ।
जैनदर्शने द्रव्य-विवेचनम् जैनदर्शने जीवोऽजीव. धर्मोऽधर्म आकाश पुद्गलश्चेति षड्द्रव्याणि सन्ति, इति पूर्वमेवाभिहितम् । एषु प्रथमस्य जीवद्रव्यस्यैव विवेचनमस्य शोध-प्रबन्धस्य मूलभूतो विषय. तस्यैवाग्रे वक्ष्यमाणत्वात् तत्प्रयोजनभूतानां शेषाणां पञ्चाना द्रव्याणा विवेचन क्रियते ।
gamat: (Matter) पुद्गलद्रव्यस्य सामान्यलक्षणम् –'रूपरसगन्धवर्णवन्तः पुद्गलाः', 'पूरणाद् गलनाद्वा पुद्गल:' इति। अत्र पूरणम्-- व्यणुकादिस्कन्धेषु तस्य मिलनम्, गलनं च स्कचात्पृथकभवनम् । इत्थ य उपचयापचयमवाप्नोति सः पुद्गल । समस्तमपीद दृश्यमान जगत् पुद्गलविस्तर एव । मूलतस्तु पुद्गलद्रव्य परमाणुरूपमेव। परमाणूनां सघातेन यत्स्कन्धस्योत्पत्तिर्जायते तत् सयुक्त पुद्गलद्रव्य भवति । इमे पुद्गलपरमाणवः स्वबन्धनशक्त्या यावमिलिता सन्ति तावत् स्कन्धपदभाजो भवन्ति । एषां स्कन्धानामुत्पत्तिः विघटनञ्च परमाणूना भेदसघातेभ्य एव भवति । अस्य चेमे चत्वारः प्रमुखाः गुणा भवन्ति-रूपम् (Colour), रस (Taste), गन्ध (Smell), स्पर्शश्चेति (Touch)।
जनदर्शन आत्म-प्रव्यविवेचनम्
६८